३०१ कन्याभिः भव्य-कलशयात्रया पार्वतीमाता-मन्दिरस्य प्राणप्रतिष्ठा-महोत्सवस्य शुभारम्भः।
सुपौलनगरम्, 23 जूनमास: (हि.स.)। जनपदे सदर-प्रखण्ड-परिसरे नवनिर्मितस्य श्रीपार्वतीमाता-मन्दिरस्य प्राणप्रतिष्ठा-उद्घाटन-महोत्सवस्य शुभारम्भः जनपदे सदर-प्रखण्ड-परिसरे स्थितस्य नवनिर्मितस्य श्रीपार्वतीमाता-मन्दिरस्य प्राणप्रतिष्ठा-उद्घाटन-महोत्सवस
Yatra


सुपौलनगरम्, 23 जूनमास: (हि.स.)।

जनपदे सदर-प्रखण्ड-परिसरे नवनिर्मितस्य श्रीपार्वतीमाता-मन्दिरस्य प्राणप्रतिष्ठा-उद्घाटन-महोत्सवस्य शुभारम्भः

जनपदे सदर-प्रखण्ड-परिसरे स्थितस्य नवनिर्मितस्य श्रीपार्वतीमाता-मन्दिरस्य प्राणप्रतिष्ठा-उद्घाटन-महोत्सवस्य मंगलवासरे श्रद्धया, भक्त्या तथा उत्साहेन सह शुभारम्भः अभवत्। महोत्सवस्य प्रथमदिने ३०१ कन्यानां भव्य-कलशयात्रा निष्कासिता। अस्यां यात्रायां बहुसंख्यकाः श्रद्धालवः सहभागं कृतवन्तः। वैदिक-मन्त्रोच्चारणेन, मङ्गल-ध्वनिभिः तथा धार्मिक-जयघोषैः सह निष्क्रान्तया कलशयात्रया समग्रः प्रदेशः भक्तिमयेन वातावरणेन परिपूर्णः अभवत्।

कलशयात्रायाः आरम्भः मन्दिर-परिसरात् अभवत्। शिरसि कलशान् धारयन्तीनां ३०१ कन्यानां दीर्घा पङ्क्तिः सर्वेषाम् आकर्षणस्य केन्द्रम् आसीत्।

यात्रा नगरस्य प्रमुखमार्गैः गच्छन्ती गांधी-प्रांगणस्थितं तडागम् अप्राप्नोत्, यत्र वैदिक-विधानानुसारं कलशेषु पवित्रं जलं पूरितम्। ततः परं श्रद्धालवः वाद्य-वादनैः, मृदंग-ध्वनिभिः तथा “जय माता दी” इति घोषैः सह पुनः मन्दिर-परिसरम् प्रत्यागच्छन्।

सम्पूर्णे मार्गे “जय माता दी” तथा “हर-हर महादेव” इति जयघोषैः वातावरणं पूर्णतया भक्तिमयं जातम्। कलशयात्रायाः समये नगरस्य विविधस्थानेषु श्रद्धालुभिः पुष्पवृष्टिं कृत्वा कन्यानां स्वागतं कृतम्। बहुसंख्यकाः महिलाः, युवानः तथा ग्रामवासिनः अस्मिन् धार्मिक-आयोजने सम्मिलिताः अभवन्।

आयोजनस्य सफलसम्पादनाय सुरक्षा-व्यवस्थायाः तथा श्रद्धालूनां सुविधायाः कृते अपि विशेष-व्यवस्था कृता आसीत्। मन्दिर-निर्माण-आयोजन-समित्याः सदस्यौ मोतीचौधरी तथा पप्पूकुमार अवदताम् यत् प्राणप्रतिष्ठा-महोत्सवान्तर्गतं बहवः धार्मिक-कार्यक्रमाः आयोज्यन्ते। मंगलवासरे मूर्ति-भ्रमणम्, कलशयात्रा तथा भव्य-जागरणस्य आयोजनम् अभवत्।

Hindusthan Samachar / Dheeraj Maithani