Enter your Email Address to subscribe to our newsletters

मुम्बईनगरम्, २३ जूनमासः (हि.स.)। महाराष्ट्रस्य गृहराज्यमन्त्री योगेशकदमः मङ्गलवासरे विधानसभायां उक्तवान् यत् राज्ये समाननागरिकसंहितायाः कार्यान्वयनस्य प्रक्रिया सर्वकारेण प्रारब्धा अस्ति। एतदर्थं विधेयकस्य प्रारूपनिर्माणाय विशेषसमितिः अपि गठिता अस्ति।
विधानसभायाः अधिवेशनं सम्बोधयन् गृहराज्यमन्त्री योगेशकदमः सदनं अवगतवान् यत् एतस्य अधिनियमस्य कार्यान्वयनार्थं सर्वकारः शतप्रतिशतं प्रतिबद्धः अस्ति तथा च विधेयकस्य प्रारूपनिर्माणस्य प्रक्रिया शीघ्रमेव आरप्स्यते। सः प्राचीनसामाजिककुप्रथानां निरोधस्य आवश्यकताम् उल्लिख्य राज्यसर्वकारस्य एतत् पदक्षेपं समुचितम् इति प्रतिपादितवान्। सः नासिकनगरे जातस्य एकस्य नवीनस्य घटनाक्रमस्य अपि उल्लेखम् अकरोत्, यस्मिन् एकः पुरुषः दूरभाषाह्वानेन ई-मेलद्वारा च स्वभार्यायै 'तलाक्' इति उक्त्वा विवाहविच्छेदम् अकरोत्, ततः अष्टदिनानन्तरं तस्याः उपरि हिंसात्मकम् आक्रमणम् अपि अभवत्।
कदमः अवदत्, याः प्रथाः केवलं दूरभाषाह्वानेन अथवा ई-मेलद्वारा विवाहस्य समाप्तिं घोषयन्ति, ताः कदापि न सोढव्याः। एतादृशीनां जीर्णविचारयुक्तानां प्रवृत्तीनां निरोधनार्थं तथा राज्ये काम् अपि महिलां प्रति अन्यायः मा भवतु इति सुनिश्चितीकरणार्थं समाननागरिकसंहिता अत्यावश्यकी अस्ति।
Hindusthan Samachar / Divya Ranjan