Enter your Email Address to subscribe to our newsletters

हरिद्वारः, २३ जूनमासः (हि.स.)। गायत्रीतीर्थे शान्तिकुञ्जे गायत्रीजयन्ती-महापर्वणः पूर्वसन्ध्यायां जनजागरणस्य तथा आत्मिकोन्नतेः विविधकार्यक्रमाणाम् आयोजनम् अभवत्। अस्मिन्नवसरे आयोजितायां भव्यायां दीपयात्रायाम् अखिलविश्वगायत्रीपरिवारस्य प्रतिनिधिः डाॅ. चिन्मयपण्ड्या तथा महिलामण्डलप्रमुखा श्रीमती शैफालीपण्ड्या मशालं दीपं च गृहीत्वा यात्रायाः नेतृत्वम् अकुरुताम्।
गायत्रीजयन्त्याः पूर्वसन्ध्यायाम् आयोजितां सभां सम्बोधयन् देवसंस्कृतिविश्वविद्यालयस्य प्रतिकुलपतिः डाॅ. चिन्मयपण्ड्या अवदत् यत् जीवनसङ्ग्रामस्य नाम अध्यात्मम् अस्ति। जीवने प्रत्येकं जनः नानाविधानां परिस्थितीनां, समस्यानां तथा आन्तरिकद्वन्द्वानां समक्षं करोति। तादृशे काले अध्यात्ममेव सा शक्तिरस्ति या मनुष्याय स्थैर्यं, धैर्यं सम्यग्दिशं च प्रददाति।
सः अवदत् यत् जीवनस्य यथार्थतां सम्यग् अवगम्य तेषां मध्ये सन्तुलनं स्थापनीयम्। बाह्यसंघर्षैः सह मनसि प्रवर्तमानानाम् इच्छानां, क्रोधस्य, लोभस्य, मोहस्य च विकाराणाम् उपरि विजयः अपि आवश्यकः। युगर्षिणा पण्डितश्रीरामशर्माचार्येण उक्तं यत्—“अध्यात्मं जीवनं श्रेष्ठं कर्तुं कला अस्ति।” यदा मनुष्यः आत्मसंयमं, सद्विचारान्, सेवाभावं च स्वीकरोति, तदैव सः जीवनसङ्ग्रामे विजयी भवति।
सः पुनरवदत् यत् अध्यात्मं मनुष्यं सामान्यात् असाधारणं करोति तथा तस्य जीवनं सार्थकं विधत्ते। प्रतिकुलपतिना जन्मशताब्दीवर्षम्–२०२६ इत्यस्य अन्तर्गतं गायत्रीपरिवारेण वैश्विकस्तरे सञ्चाल्यमानानां विविधक्रियाकलापानां रूपरेखा अपि प्रस्तुता।
अस्मात् पूर्वं शान्तिकुञ्ज-महिलामण्डलप्रमुखा शैफालीपण्ड्या अवदत् यत् माता भगवतीदेवीशर्मा स्वजीवने गायत्रीमातुः करुणा-सेवा-मातृत्वस्य आदर्शान् साकाररूपेण प्रकटितवती। तया स्वस्य असीमप्रेम्णा आत्मीयतया च सम्पूर्णं गायत्रीपरिवारम् एकसूत्रेण सम्बध्य सशक्तस्य संस्कारितस्य च परिवारस्य स्वरूपं प्रदत्तम्। सा अवदत् यत् गायत्रीमाता ज्ञानस्य, सद्बुद्धेः तथा मानवकल्याणस्य प्रतीका अस्ति। माताजी एतेषामेव आदर्शानाम् अनुसरणं कृत्वा नारीजागरणस्य, संस्कारनिर्माणस्य तथा समाजोत्थानस्य कार्येषु नूतनां दिशं प्रदत्तवती। अस्मिन्नवसरे शान्तिकुञ्जस्य वरिष्ठप्रतिनिधयः, देशविदेशेभ्यः आगताः सहस्रशः साधकाः च उपस्थिताः आसन्।
शान्तिकुञ्जस्य मीडियाविभागेन सूचितं यत् महापर्वणः मुख्यकार्यक्रमः बुधवासरे भविष्यति। तस्मिन् अवसरे अखिलविश्वगायत्रीपरिवारस्य प्रमुखद्वयस्य विशेषोद्बोधनं भविष्यति। विभिन्नराज्येभ्यः आगतानां जनानां गुरुदीक्षासहिताः विविधसंस्काराः अपि निःशुल्कं सम्पन्नाः भविष्यन्ति।
Hindusthan Samachar / Divya Ranjan