उपराष्ट्रपतिना सह अमिलत् अखिलभारतीयविद्यार्थिपरिषद्प्रतिनिधिमंडलं, युवा सशक्तीकरणं, विद्यार्थी हितानां प्रकरणे विहिता चर्चा
नव दिल्ली, 24 जूनमासः (हि.स.)।अखिलभारतीयविद्यार्थिपरिषदः एकं प्रतिनिधिमण्डलं बुधवासरे राष्ट्रियाध्यक्षस्य प्रो. रघुराजकिशोरतिवारी महोदयस्य तथा राष्ट्रियमहामन्त्रिणः डॉ. वीरेन्द्रसिंहसोलङ्की महोदयस्य नेतृत्वे अत्र उपराष्ट्रपतिना सी. पी. राधाकृष्णन स
उपराष्ट्रपति सी. पी. राधाकृष्णन से बुधवार को अभाविप के राष्ट्रीय अध्यक्ष प्रो. रघुराज किशोर तिवारी के नेतृत्व में परिषद के प्रतिनिधिमंडल ने मुलाकात की


नव दिल्ली, 24 जूनमासः (हि.स.)।अखिलभारतीयविद्यार्थिपरिषदः एकं प्रतिनिधिमण्डलं बुधवासरे राष्ट्रियाध्यक्षस्य प्रो. रघुराजकिशोरतिवारी महोदयस्य तथा राष्ट्रियमहामन्त्रिणः डॉ. वीरेन्द्रसिंहसोलङ्की महोदयस्य नेतृत्वे अत्र उपराष्ट्रपतिना सी. पी. राधाकृष्णन सह शिष्टाचारमेलनं कृतवान्। उपराष्ट्रपतिपदस्य दायित्वग्रहणानन्तरम् अभाविपप्रतिनिधिमण्डलस्य एषा प्रथमा औपचारिकमेलनम् आसीत्।

गोष्ठ्यां राष्ट्रनिर्माणे युवानां भूमिका, उच्चशिक्षायाः समसामयिकविषयाः, विद्यार्थिहितसम्बद्धाः प्रश्नाः तथा अभाविपद्वारा देशव्यापि सञ्चाल्यमानाः विविधाः अभियानाः कार्यक्रमाश्च विस्तरेण चर्चिताः। प्रतिनिधिमण्डलेन संस्थायाः विस्तारः, छात्रहितार्थं सञ्चाल्यमानानि आन्दोलनानि तथा राष्ट्रियजीवने विविधक्षेत्रेषु विद्यार्थिनां रचनात्मकसहभागितायाः विषये सूचना प्रदत्ता।

अभाविपेन उपराष्ट्रपतये निवेदितं यत् संस्थायाः स्टूडेण्ट्स एक्सपीरियन्स इन इण्टरस्टेट लिविङ्ग इति एसईआईएल कार्यक्रमः षष्टिवर्षाणि पूर्णयति। अयं अभियानः पूर्वोत्तरभारतस्य देशस्य च अन्यभागानां विद्यार्थिनां मध्ये सांस्कृतिकसंवादं राष्ट्रियैकात्म्यं च दृढीकर्तुं महत्त्वपूर्णां भूमिकां निर्वहति। तदतिरिक्तं युवसु वर्धमानां डिजिटलनिर्भरतां दृष्ट्वा सञ्चाल्यमानस्य स्क्रीन टाइम टू एक्टिविटी टाइम इत्यभियानस्यापि सूचना प्रदत्ता, यस्य उद्देश्यं विद्यार्थिनः क्रीडासु, सामाजिकक्रियाकलापेषु तथा रचनात्मककार्येषु संयोजयितुम् अस्ति।

प्रतिनिधिमण्डलेन महिलासुरक्षायै सशक्तीकरणाय च सञ्चाल्यमानस्य मिशन साहसी इत्यभियानस्यापि उल्लेखः कृतः तथा निवेदितं यत् तस्य अन्तर्गतं अद्यावधि दशलक्षाधिकाभ्यः छात्राभ्यः आत्मरक्षाप्रशिक्षणं प्रदत्तम् अस्ति। आगामिचरणे अस्य अभियानस्य पुनः देशव्यापिस्तरे सञ्चालनस्य योजना वर्तते।

बैठकायां पंजाब विश्वविद्यालय सम्बद्धाः बहवः महत्त्वपूर्णविषयाः अपि उत्थापिताः। अभाविपेन विश्वविद्यालयस्य सीनेटे विद्यार्थिप्रतिनिधित्वस्य सुनिश्चितीकरणं, वर्धमानछात्रसंख्यानुसारं छात्रावाससुविधानां विस्तारः, शिक्षकेषु रिक्तपदानां नियमितकालबद्धनियुक्तयः तथा कृत्रिमबुद्धिमत्ता एवं उद्भवमानप्रौद्योगिकीविषयकानां अत्याधुनिककेन्द्राणां स्थापनं च प्रार्थितम्। सहैव विद्यार्थिनां मानसिकस्वास्थ्यस्य समग्रविकासस्य च कृते योग माइण्डफुलनेस केन्द्रस्य तथा स्थायिपरामर्शदातृयुक्तस्य छात्रकल्याणकेन्द्रस्य स्थापनस्य आवश्यकतायामपि विशेषबलं दत्तम्।

अखिलभारतीयविपरिषदो राष्ट्रियमहामन्त्री डॉ. सोलङ्की उक्तवान् यत् उपराष्ट्रपतिना सह जाता एषा भेंट अत्यन्तं सार्थका प्रेरणादायिनी च आसीत्।

संस्थायाः मतम् अस्ति यत् उच्चशिक्षणसंस्थासु गुणवत्तायुक्तं शैक्षणिकपर्यावरणं, पर्याप्ताः छात्रसुविधाः तथा सहभागितायुक्ता पारदर्शिनी च प्रशासनव्यवस्था सुनिश्चितीकर्तव्या।

प्रतिनिधिमण्डले राष्ट्रियसहसङ्गठनमन्त्री एस. बालकृष्णः, राष्ट्रियमन्त्री क्षमा शर्मा, पायल किनाके, आदित्य तकियार, दिल्ली विश्वविद्यालय छात्रसंघ पूर्वसचिवा मित्रवृन्दा कर्णवाल तथा पंजाब विश्वविद्यालय छात्रसंघ अध्यक्षः गौरववीर सोहल इत्यादयः अन्ये पदाधिकारी अपि समाविष्टाः आसन्।

-----------

Hindusthan Samachar / Dheeraj Maithani