Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, जूनमासस्य २४ दिनाङ्कः (हि.स.)। आमआदमीपक्षस्य वरिष्ठनेता राज्यसभासांसदश्च संजयसिंहः बुधवासरे अवदत् यत् दलस्य राष्ट्रीयसंयोजकः देहल्याः पूर्वमुख्यमन्त्री अरविन्द-केजरीवालः प्रभुश्रीरामस्य आशीर्वादं ग्रहीतुं जूनमासस्य २५ दिनाङ्के गुरुवासरे उत्तरप्रदेशम् आगमिष्यति।
संजयसिंहेन विज्ञप्तिः प्रकाशिताऽभवत्। तत्र उक्तं यत् अरविन्दकेजरीवालः जूनमासस्य २५ दिनाङ्के मध्याह्ने द्विवादने लखनऊ-अमौसी-विमान-स्थानकम् आगमिष्यति। विमान-स्थानके अवतरणानन्तरं सः तत्र उपस्थितान् पत्रकारान् सम्बोधयिष्यति। ततः सः साक्षाद् रामनगरीम् अयोध्याम् प्रति प्रस्थितः भविष्यति।
अयोध्यायां रात्रिविश्रामानन्तरं जूनमासस्य २६ दिनाङ्के प्रातः एकादशवादने सः श्रीरामललायाः भव्यदर्शनं करिष्यति तथा हनुमानगढी-मन्दिरे बजरङ्गबलेः पूजने सहभागितां करिष्यति। आरार्तिकी-पूजनानन्तरं देहल्याः पूर्वमुख्यमन्त्री अरविन्दकेजरीवालः अयोध्यायाः पूज्यैः सन्त-महात्मभिः सह साक्षात्कारं करिष्यति तथा तेषाम् आशीर्वादं ग्रहीष्यति। सन्तैः सह साक्षातृकारानन्तरं सः अयोध्यायां पत्रकारसम्मेलनं करिष्यति। ततः परं देहलीं प्रति प्रस्थितः भविष्यति।
Hindusthan Samachar / Divya Ranjan