भाजपा-दलेन मल्लिकार्जुन-खरगे-विरुद्धं कर्नाटके १९ एकर-परिमितायाः शासकीय-भूमेः अवैध-अधिग्रहणस्य आरोपः कृतः
नवदेहली, २४ जूनमासः (हि.स.)। भारतीय-जनता-पक्षेण कांग्रेस-दलाध्यक्षं मल्लिकार्जुन-खरगें लक्ष्यीकृत्य तस्य विरुद्धं कर्नाटक-राज्ये १९ एकर-परिमितायाः शासकीय-भूमेः अवैध-अधिग्रहणस्य आरोपः कृतः। भाजपा-दलस्य राष्ट्रिय-प्रवक्ता प्रदीप-भण्डारी बुधवासरे दलस
भाजपा राष्ट्रीय प्रवक्ता प्रदीप भंडारी


नवदेहली, २४ जूनमासः (हि.स.)। भारतीय-जनता-पक्षेण कांग्रेस-दलाध्यक्षं मल्लिकार्जुन-खरगें लक्ष्यीकृत्य तस्य विरुद्धं कर्नाटक-राज्ये १९ एकर-परिमितायाः शासकीय-भूमेः अवैध-अधिग्रहणस्य आरोपः कृतः।

भाजपा-दलस्य राष्ट्रिय-प्रवक्ता प्रदीप-भण्डारी बुधवासरे दलस्य मुख्यालये आयोजितायां पत्रकार-वार्तायां उक्तवान् यत् खरगे तथा तस्य पुत्रः प्रियाङ्क-खरगे एकस्य न्यासस्य माध्यमेन कर्नाटके भूमेः दुरुपयोगं भ्रष्टाचारं च कुर्वन्ति। अस्य न्यासस्य नाम सिद्धार्थ-विहार-न्यासः अस्ति। अस्मिन् न्यासे खरगे, तस्य पुत्रः प्रियाङ्क-खरगे, जामाता, पत्नी च सम्मिलिताः सन्ति। अयं न्यासः खरगे-परिवारस्य नियन्त्रणे अस्तीत्यपि तेन उक्तम्।

भण्डारी उक्तवान्— गुलबर्गा-जनपदे १९ एकर-परिमितायाः भूमेः आवंटनम् अपि विवादास्पदम् अस्ति। एषा सार्वजनिक-भूमिः कर्नाटकस्य कांग्रेस-शासनेन खरगे-इत्यस्य निजी-न्यासाय प्रदत्ता। तेन १९ एकर-परिमिता सार्वजनिक-भूमिः तादृशस्य निजी-न्यासस्य नियन्त्रणे गता, यस्य सदस्येषु खरगे-परिवारस्य सदस्याः एव सन्ति।

तेन आरोपः कृतः यत् खरगे तथा प्रियाङ्क-खरगे एतेन न्यासेन विभिन्न-भूमीः अधिगृह्य स्वस्य राजनैतिक-प्रभावस्य उपयोगं कृत्वा निर्धनानां भूमिं अपहृतवन्तौ।

सः अवदत् यत् भूम्यधिग्रहणस्य एषः प्रथमः प्रसङ्गः नास्ति। वर्षे २०२४ तमे कर्नाटक-औद्योगिक-क्षेत्र-विकास-मण्डलेन अस्मै न्यासाय पञ्च-एकर-परिमिता भूमिः आवंटिता आसीत्। तस्मिन्नपि काले कर्नाटके कांग्रेस-दलस्य शासनम् आसीत्। मल्लिकार्जुन-खरगे कांग्रेस-दलस्य अध्यक्षः आसीत्, अद्यापि च अध्यक्षः अस्ति, तथा प्रियाङ्क-खरगे मन्त्री आसीत्।

भण्डारी उक्तवान् यत् भूमेः घोषितं प्रयोजनम् एयरोस्पेस् तथा प्रतिरक्षा-क्षेत्रयोः अनुसन्धान-विकास-कार्याणि आसन्। तेन आरोपितं यत् पञ्च-एकर-परिमितायाः अस्याः भूमेः मूल्यं प्रायः १०० कोटि-रूप्यकाणि अस्ति, किन्तु यस्मै प्रयोजनाय भूमिः प्रदत्ता, तस्मिन् विषये कापि क्रिया न दृश्यते।

सः प्रश्नम् अकरोत् यत् कर्नाटकस्य कांग्रेस-शासनेन तादृशाय न्यासाय, यस्मिन् मल्लिकार्जुन-खरगे स्वयं न्यासी अस्ति, शत-कोटि-रूप्यक-मूल्यां औद्योगिक-भूमिं किमर्थं प्रदत्तवती?

भण्डारी पुनः अपृच्छत्— किं खरगे तथा प्रियाङ्क-खरगे स्वपदस्य प्रभावस्य च उपयोगं कृत्वा औद्योगिक-भूमेः अधिग्रहणं कृतवन्तौ? न्यासेन किं विशेषं कार्यं कृतं यत् एयरोस्पेस्-प्रतिरक्षा-अनुसन्धानार्था भूमिः निजी-न्यासाय प्रदत्ता?

Hindusthan Samachar / Divya Ranjan