गर्वो न, मर्म एव प्राधान्यम् : डॉ. वर्णिका शर्मा
रायपुरम्, २४ जूनमासः (हि.स.)। छत्तीसगढ़-राज्यस्य बाल-अधिकार-संरक्षण-आयोगस्य अध्यक्षा डॉ. वर्णिका-शर्मा-इत्यस्याः संवेदनशील-प्रयत्नैः सतत-पर्यवेक्षणेन च कबीरधाम-जनपदस्य विशेष-पश्चाद्वर्तिजनजातेः बैगा-समुदायस्य त्रयोदश बालकाः न केवलं बन्धुआ-श्रमात् व
डॉ. वर्णिका शर्मा एवं बैगा समुदाय के 13 बच्चें


रायपुरम्, २४ जूनमासः (हि.स.)। छत्तीसगढ़-राज्यस्य बाल-अधिकार-संरक्षण-आयोगस्य अध्यक्षा डॉ. वर्णिका-शर्मा-इत्यस्याः संवेदनशील-प्रयत्नैः सतत-पर्यवेक्षणेन च कबीरधाम-जनपदस्य विशेष-पश्चाद्वर्तिजनजातेः बैगा-समुदायस्य त्रयोदश बालकाः न केवलं बन्धुआ-श्रमात् विमोचिताः, अपितु पुनः शिक्षायाः मुख्यप्रवाहे सम्यग् संयोजिताः सन्ति।

उल्लेखनीयम् अस्ति यत् २०२६ तमस्य वर्षस्य मे-मासे कबीरधाम-जनपदस्य भोरमदेव-क्षेत्रस्य थुहापानी-ग्रामे तथा कान्हा-राष्ट्रीय-उद्यानस्य समीपवर्तिषु पशुपालन-केन्द्रेषु मानव-तस्करी तथा बाल-श्रमस्य गम्भीरं प्रकरणं प्रकाशम् आगतम्। अष्टवर्षीयात् पञ्चदशवर्षीय-पर्यन्तवयस्काः बैगा-जनजातेः त्रयोदश बालकाः परिवारेभ्यः आर्थिक-प्रलोभनं प्रदाय नीताः इति कथ्यते स्म। तैः गो-पालनेन सह विविधकार्याणि कारितानि। तेभ्यः प्रातःकालात् आरभ्य रात्रेः विलम्बपर्यन्तं कार्यं कारितम्, न च उचितं वेतनं मूलभूत-सुविधाश्च प्रदत्ताः।

प्रकरणस्य सूचना प्राप्ते कवर्धा-आरक्षक-विभागेन, महिला-एवं-बाल-विकास-विभागेन, चाइल्डलाइन-संस्थया तथा एसोसिएशन-फॉर-वॉलण्टरी-एक्शन इत्यनेन संयुक्त-अभियानेन सर्वे त्रयोदश बालकाः सुरक्षितरूपेण उद्धारिताः। अस्मिन् प्रकरणे पुलिस-विभागेन द्वौ मानव-तस्करौ षट् नियोजकांश्च मिलित्वा अष्टौ अभियुक्तानां विरुद्धं विधिसम्मता कार्यवाही कृता।

प्रकरणस्य प्रकाशनानन्तरं छत्तीसगढ़-राज्य-बाल-अधिकार-संरक्षण-आयोगेन एतत् गम्भीरतया स्वीकृत्य बालकानां पुनर्वासः, शिक्षा, संरक्षणं च प्राधान्येन स्वीकृतम्। आयोगाध्यक्षायाः डॉ. वर्णिका-शर्मा-इत्यस्याः निर्देशानुसारं सम्बद्ध-विभागेभ्यः निरन्तरं सूचना प्राप्ता तथा च कश्चिदपि बालकः पुनः शोषणस्य शिकारः न भवेत् इति सुनिश्चितुं प्रयत्नाः कृताः।

आयोगस्य निर्देशानां पालनेन बोड़ला-विकासखण्डस्य शिक्षाधिकारीणः १० जून २०२६ दिनाङ्के प्रेषित-प्रतिवेदनानुसारं उद्धारितानां सर्वेषां त्रयोदश बैगा-बालकानां पुनः विद्यालयेषु प्रवेशः कारितः। तेषां कृते शैक्षणिक-सुविधानां प्रदान-प्रक्रियापि आरब्धा अस्ति।

अस्मिन् अवसरे डॉ. वर्णिका-शर्मा बुधवासरे अवदत्—“प्रत्येकं बालकस्य बाल्यं, शिक्षा, सुरक्षितं भविष्यं च तस्य संवैधानिकम् अधिकार: अस्ति। बन्धुआ-श्रमः मानव-तस्करी च इत्यादृशानाम् अमानुष-घटनानां समाजे किमपि स्थानं नास्ति। एतेषां बालकानां विद्यालये पुनः प्रवेशः केवलं औपचारिकता नास्ति, अपितु तेषां स्वप्नानाम्, आत्मसम्मानस्य, उज्ज्वल-भविष्यस्य च पुनः प्रतिष्ठापनम् अस्ति।”

Hindusthan Samachar / Divya Ranjan