Enter your Email Address to subscribe to our newsletters

रायपुरम्, २४ जूनमासः (हि.स.)। छत्तीसगढराज्ये अद्य बुधवासरे सर्वेषु ग्रामपञ्चायतेषु ग्रामसभानाम् आयोजनं भविष्यति। पञ्चायत-ग्रामीण-विकास-विभागेन ग्रामसभानां सफलायोजनं तथा अधिकाधिक-ग्रामीणजनानां सहभागिता सुनिश्चितुं सर्वाभ्यः ग्रामपञ्चायतेभ्यः निर्देशाः प्रदत्ताः।
ग्रामसभासु विशेषरूपेण आवास-प्लस २.० सर्वेक्षणेन प्राप्तायाः प्रणालीजनित-स्थायी-प्रतीक्षासूच्याः अवलोकनं वाचनं च भविष्यति। शासनस्य मार्गदर्शिकानुसारं तथा मानक-सञ्चालन-प्रक्रियानुसारं पात्रहितग्राहिणां प्राथमिकतासूची सज्जी-करिष्यते। तथा च ग्रामीणजनैः प्रस्तुताः आक्षेपा: नियमानुसारं स्वीकृत्य तेषां निराकरणस्य प्रक्रिया अनुपालिता भविष्यति।
ग्रामसभायाः अनुमोदनानन्तरं स्थायी-प्रतीक्षासूच्याः आवास-सॉफ्टवेयर मध्ये अपलोड-करणस्य कार्यवाही करिष्यते। तदतिरिक्तं पूर्वग्रामसभायाः निर्णयानां पालनप्रतिवेदनस्य प्रस्तुतीकरणम्, पञ्चायतानाम् आय-व्ययस्य समीक्षा तथा अनुमोदनम्, विविध-योजनाभ्यः स्वीकृतानां कार्याणां प्रगतिसमीक्षा तथा अन्येषां विकाससम्बद्धविषयाणां विषयेऽपि चर्चा भविष्यति।
ग्रामसभासु विकसित-भारत-रोजगार-एवं-आजीविका-अभियानस्य विषयेऽपि ग्रामीणजनानां कृते सूचना प्रदास्यते। विभागेन सर्वाभ्यः ग्रामपञ्चायतेभ्यः आग्रहः कृतः यत् ग्रामसभासु अधिकाधिक-ग्रामीणजनानाम् उपस्थितिः सुनिश्चिती-क्रियताम् तथा जनसहभागितायाः संवर्धनं क्रियताम्।
Hindusthan Samachar / Divya Ranjan