गूगल इत्यनेन सह मुख्यमंत्रिणो योगिनो वृद्धिप्रकथनम् : एआई, निवेशः नवाचारः इत्येषां सहायकेन विकसितस्य उत्तर प्रदेशस्य प्रारूपः
• मुख्यमन्त्री योगी आदित्यनाथः गूगल क्लाउड इत्यस्य मुख्यप्रौद्योगिकीअधिकारी तरुण पन्तेन तस्य दलस्य च सह महत्त्वपूर्णमुपवेशनम् अकरोत् • कृषकाणां यूनां स्टार्टअपसंस्थानां लघु सूक्ष्म मध्यमोद्यमानां तथा सामान्यनागरिकाणां कृते कृत्रिमबुद्धिमत्ता एवं प
कार्यक्रम को संबोधित करते मुख्यमंत्री योगी आदित्यनाथ


कार्यक्रम को संबोधित करते मुख्यमंत्री योगी आदित्यनाथ


• मुख्यमन्त्री योगी आदित्यनाथः गूगल क्लाउड इत्यस्य मुख्यप्रौद्योगिकीअधिकारी तरुण पन्तेन तस्य दलस्य च सह महत्त्वपूर्णमुपवेशनम् अकरोत्

• कृषकाणां यूनां स्टार्टअपसंस्थानां लघु सूक्ष्म मध्यमोद्यमानां तथा सामान्यनागरिकाणां कृते कृत्रिमबुद्धिमत्ता एवं प्रौद्योगिकी आधारितसमाधानेषु चर्चा अभवत्

• गूगलसंस्थया उत्तरप्रदेशसरकारेण सह मिलित्वा विकासलक्ष्याणां प्रवर्तनार्थं प्रतिबद्धता व्यक्ता

• वेस्टब्रिज कैपिटल, एक्सेल पार्टनर्स, इनमोबी, एनवीडिया तथा ब्लैकस्टोन इत्यादीनां प्रमुखनिवेशकानां सह अपि संवादः कृतः

• उद्योगजगतः प्रतिनिधिभिः उत्तरप्रदेशः देशस्य सर्वाधिकसंभावनाशीलः निवेशनवाचारकेन्द्ररूपेण वर्णितः

बेङ्गलूरुः लखनऊ, २४ जूनमासः (हि.स.)।

विकसितस्य उत्तरप्रदेशस्य दृष्टिं वैश्विकप्रौद्योगिकी तथा निवेशजगता सह सम्बद्धां कर्तुं दिशि मुख्यमन्त्री योगी आदित्यनाथः बेङ्गलूरुदौरे गूगल क्लाउडस्य मुख्यप्रौद्योगिकीअधिकारी तरुण पन्तेन तस्य दलस्य च सह बुधवासरे महत्त्वपूर्णां बैठकाम् अकरोत्। गोलमेजबैठकाभ्यः रोडशोकार्यक्रमेभ्यश्च पूर्वम् आयोजिते अस्मिन् संवादे मुख्यमन्त्री सामान्यनागरिकाणां जीवनस्य उन्नयनम्, कृषकाणाम् आयवृद्धिः, युवभ्यः नूतनावसरनिर्माणम्, स्टार्टअपसंस्कृतेः सुदृढीकरणम् तथा सूक्ष्मलघुमध्यमोद्यमानां नूतनप्रौद्योगिक्या सह संयोजनम् इत्यादिविषयेषु राज्यसरकारस्य दृष्टिकोणं विस्तारतः अवदत्।

बैठकाकाले मुख्यप्रौद्योगिकीअधिकारी तरुण पन्तेन गूगलदलस्य च सह कृत्रिमबुद्धिमत्ता, क्लाउडप्रौद्योगिकी, डिजिटलप्रशासनम् तथा दत्तांशाधारितसमाधानानां माध्यमेन विकासकार्यक्रमान् अधिकप्रभावीकरोति कथम् इति विषये विस्तृता चर्चा अभवत्। मुख्यमन्त्री गूगलदलस्य सह एतस्मिन् विषये अपि विचारविनिमयं कृतवान् यत् प्रौद्योगिक्याः माध्यमेन शासकीयसेवानां पहुँचः प्रभावशीलता च कथं वर्धयितुं शक्येते। कृषकाणां, युवानां, स्टार्टअपसंस्थानां, लघु सूक्ष्म मध्यमोद्यमक्षेत्रस्य तथा सामान्यनागरिकाणां जीवनेषु सकारात्मकपरिवर्तनं जनयितुं नवाचाराधारितसमाधानानां विषये अपि चर्चा अभवत्।

गूगलदलस्य प्रतिनिधयः एतां बैठकां अत्यन्तं सकारात्मकां सार्थकां च कथयन्तः उक्तवन्तः यत् मुख्यमन्त्री योगी आदित्यनाथः उत्तरप्रदेशस्य विकासस्य स्पष्टं दूरदर्शिनं च मार्गचित्रं प्रस्तुतवान्। तेन कृषकाणां, लघु सूक्ष्म मध्यमोद्यमानां, स्टार्टअपसंस्थानां तथा यूनां कृते निर्धारितलक्ष्याणां प्राथमिकतानां च विषये जानकारी प्रदत्ता। कृत्रिमबुद्धिमत्तायाः आधुनिकप्रौद्योगिक्याश्च माध्यमेन एतानि लक्ष्याणि अधिकशीघ्रतया कथं साधयितुं शक्यन्ते इति विषये अपि चर्चा अभवत्। गूगल इण्डिया संस्थायाः पक्षतः उक्तं यत् संस्था भारतस्य विकासाय पूर्णतया प्रतिबद्धा अस्ति तथा उत्तरप्रदेशसरकारेण सह मिलित्वा एतानि लक्ष्याणि अग्रे नेतुं प्राप्तावसरे विषये उत्साहिता अस्ति।

वैश्विकनिवेशकानां सह अपि व्यापकः संवादः अभवत्

एतेन सह मुख्यमन्त्री योगी आदित्यनाथः बेङ्गलूरुनगरे देशविदेशयोः अग्रणी निवेश तथा प्रौद्योगिकीसंस्थानां शीर्षाधिकारिभिः सह विशेषसंवादम् अकरोत्। तेषु वेस्टब्रिज कैपिटल संस्थायाः प्रबन्धसहभागी सन्दीप सिंघलः, एक्सेल पार्टनर्स संस्थायाः प्रशान्त प्रकाशः, इनमोबी संस्थायाः संस्थापकः पीयूष शाहः, यूलू संस्थायाः संस्थापकः अमित गुप्तः, एनवीडिया दक्षिण एशिया संस्थायाः प्रबन्धनिदेशकः विशाल धूपरः, सर्वानएआई संस्थायाः प्रतिनिधयः तथा ब्लैकस्टोन संस्थायाः वरिष्ठाधिकारिणः समाविष्टाः आसन्। उपवेशने उत्तरप्रदेशे निवेशः, प्रौद्योगिकी, नवाचारः, कृत्रिमबुद्धिमत्ता, स्टार्टअपपरितन्त्रम् तथा रोजगारसृजनस्य सम्भावनाः इत्यादिविषयेषु विस्तृता चर्चा अभवत्। उद्योगजगतः प्रतिनिधयः उत्तरप्रदेशे तीव्रगत्या विकसितं आधारभूतसंरचनाजालं, सुदृढां विधिव्यवस्थां तथा निवेशकमैत्रीपर्यावरणं प्रशंसन्तः राज्यं भविष्यविकासस्य प्रमुखकेन्द्ररूपेण वर्णितवन्तः।

निवेशनवाचारयोः नूतनकेन्द्ररूपेण उदेति उत्तरप्रदेशः

मुख्यमन्त्रिणः योगी आदित्यनाथस्य नेतृत्वे उत्तरप्रदेशः निरन्तरं निवेशस्य, नवाचारस्य तथा प्रौद्योगिकीआधारितविकासस्य नूतनकेन्द्ररूपेण उदेति। द्रुतमार्गाः, विमानस्थानकानि, औद्योगिकवीथ्यः, डिजिटलसेवाः तथा निवेशकमैत्रीनितयः राज्यं देशस्य सर्वाधिकाकर्षकेषु निवेशगन्तव्येषु समावेशितवन्ति। बेङ्गलूरुनगरे गूगलसंस्थया वैश्विकनिवेशकैश्च सह सम्पन्नः संवादः एतत् सूचितवान् यत् उत्तरप्रदेशः अधुना प्रौद्योगिकी, कृत्रिमबुद्धिमत्ता, स्टार्टअप, निवेश तथा रोजगारसृजनस्य राष्ट्रियकेन्द्रं भवितुं दिशि तीव्रगत्या अग्रे गच्छति।

Hindusthan Samachar / Dheeraj Maithani