Enter your Email Address to subscribe to our newsletters

भारतीय-इतिहासे २५ जून-दिनाङ्कः एकस्य महत्त्वपूर्णस्य विवादास्पदस्य च राजनैतिक-प्रसङ्गस्य कारणेन प्रसिद्धः अस्ति। १९७५ तमे वर्षे अस्मिन्नेव दिने देशे आन्तरिक-आपत्कालस्य घोषणा कृता, या भारतीय-लोकतन्त्रे, राजनीतौ तथा शासन-व्यवस्थायां गम्भीरं प्रभावम् अकरोत्।
तत्कालीन-राष्ट्रपतिः फखरुद्दीन-अली-अहमदः तत्कालीन-प्रधानमन्त्रिणः इन्दिरा-गान्धी-सर्वकारस्य अनुशंसया भारतीय-संविधानस्य अनुच्छेद-३५२ इत्यन्तर्गतं देशे आपत्कालस्य घोषणाम् अकरोत्। ततः २६ जून १९७५ आरभ्य २१ मार्च १९७७ पर्यन्तं देशे आपत्कालः प्रभावी आसीत्।
एषः कालखण्डः स्वतन्त्र-भारतस्य इतिहासे अत्यन्तं चर्चितेषु विवादास्पदेषु च अध्यायेषु परिगण्यते। अस्मिन् काले बहवः राजनैतिक-नेतारः गृहीताः, पत्रकारितायां सेन्सर-नियन्त्रणं प्रवर्तितम्, नागरिक-अधिकाराणां च बहुषु क्षेत्रेषु प्रतिबन्धाः आरोपिताः। तदानीन्तनी सर्वकार: एतत् राष्ट्रस्य स्थैर्य-व्यवस्थयोः रक्षणार्थम् आवश्यकं पदम् इति अवदत्, विपक्ष-दलानि बहवः राजनैतिक-विश्लेषकाः च एतत् लोकतान्त्रिक-मूल्यानां प्रति समस्यारूपेण अमन्यन्त।
आपत्कालस्य अवधौ लोकसभा-निर्वाचनानि स्थगितानि अभवन् तथा राजनैतिक-क्रियाकलापेषु व्यापकं नियन्त्रणं दृष्टम्। अस्मिन् काले प्रशासनिक-आर्थिक-क्षेत्रयोः अपि अनेके कार्यक्रमाः प्रवर्तिताः, येषां देशस्य सामाजिक-राजनैतिक-व्यवस्थायां गम्भीरः प्रभावः अभवत्।
मार्च १९७७ मध्ये आपत्कालस्य समाप्तेः अनन्तरं सामान्य-निर्वाचनानि सम्पन्नानि। तेषु जनता-पक्षः ऐतिहासिकं विजयम् अलभत तथा देशे प्रथमवारं गैर-काङ्ग्रेसीय-सर्वकारस्य गठनम् अभवत्। एतत् राजनैतिक-परिवर्तनं भारतीय-लोकतन्त्रस्य इतिहासे महत्त्वपूर्णः इति मन्यते।
इतिहासस्य पृष्ठेषु २५ जून केवलं दिनाङ्कः नास्ति, अपितु भारतीय-लोकतन्त्रस्य तस्य कालस्य स्मारकः अस्ति, येन देशस्य राजनीति संवैधानिकी व्यवस्था च गम्भीरतया प्रभाविते।
महत्त्वपूर्णाः घटनाः
१५२९ — मुगल-सम्राट् बाबरः बंगालं विजित्य स्वराजधानीम् आगराम् प्रत्यागच्छत्।१७८८ — वर्जीनिया-राज्यम् अमेरिकीय-संविधानम् अङ्गीकृत्य दशमं राज्यम् अभवत्।१९४१ — फिनलैण्ड-देशेन सोवियत-सङ्घस्य विरुद्धं युद्धस्य घोषणा कृता।१९४७ — ऐन-फ्राङ्क-लिखिता ‘डायरी ऑफ ए यङ्ग गर्ल’ इति कृतिः प्रकाशिताभवत्।१९५० — उत्तर-दक्षिण-कोरिया-देशयोः युद्धम् आरब्धम्, यत् पश्चात् अन्ताराष्ट्रिय-शीतयुद्धस्य रूपम् अधारयत्।१९७५ — इन्दिरा-गान्धी-सर्वकारस्य परामर्शेन राष्ट्रपतिना फखरुद्दीन-अली-अहमदेन भारते आपत्कालः घोषितः।१९७७ — २५ जून-दिनः आपत्कालस्य स्मरणार्थं ‘काला-दिवसः’ इति रूपेण आचर्यते।१९९८ — अमेरिकादेशस्य राष्ट्रपतिः बिलक्लिण्टन् नव-दिवसीय-यात्रायै चीनदेशम् अगच्छत्।१९९९ — युगोस्लावियायाः राष्ट्रपतिः स्लोबोदान् मिलोसेविचस्य निग्रहण-सूचनादातृभ्यः अमेरिका-पक्षेण पञ्च-दशलक्ष-डॉलर-परितोषिकस्य घोषणा कृता।२००२ — अफगानिस्ताने नूतन-मन्त्रिमण्डलेन शपथग्रहणं कृतम्।२००३ — सिङ्गापुरस्य वरिष्ठ-अधिवक्ता भारतीय-समुदायस्य प्रमुखः आर.पाल-कृष्णन् मेलबोर्न-नगरे दिवंगतः।२००४ — रूस-देशेन भारतेन सह रणनैतिक-सहभागितां वर्धयितुं निर्णयः कृतः।२००५ — महमूद् अहमदीनेजादः ईरान-देशस्य राष्ट्रपतिः अभवत्।२००८ — उत्तरप्रदेश-सर्वकारेण गृह-भूमि-पञ्जीकरणे मुद्राङ्क-शुल्कं ८ प्रतिशतात् ५ प्रतिशतं न्यूनीकृतम्।२०१७ — श्रीकान्तः ऑस्ट्रेलिया-ओपन-सुपर-सीरीज़-प्रतियोगितायाः विजेता अभवत्।
जन्म
१९०० — लॉर्ड् माउण्टबेटन् — भारतस्य अन्तिमः वाइसरायः।१९०३ — चन्द्रशेखर-पाण्डेयः — प्रसिद्धः साहित्यकारः।१९०८ — सुचेता-कृपलानी — स्वतन्त्रता-संग्राम-सेनानी राजनीतिज्ञा च।१९२४ — मदन-मोहनः — प्रसिद्धः चलचित्र-सङ्गीत-निर्देशकः।१९३१ — विश्वनाथ-प्रताप-सिंहः — भारतस्य अष्टमः प्रधानमन्त्री।१९३५ — उदय-चन्दः — भारतीयः मल्ल: तथा मल्लयुद्ध-प्रशिक्षकः।१९५७ — गोपाल-प्रसाद-दुबे — सरायकेला-छऊ-नृत्यस्य प्रमुखः नर्तकः।१९६१ — सतीश-शाहः — प्रसिद्धः हास्य-अभिनेता।१९६६ — एम. वी. वी. सत्यनारायणः — आन्ध्रप्रदेशस्य सांसदः।१९७४ — करिश्मा-कपूरः — प्रसिद्धा हिन्दी-चलच्चित्र-अभिनेत्री।१९७५ — मनोज-कुमार-पाण्डेयः — परमवीर-चक्र-विभूषितः भारतीय-सैनिकः।१९८६ — सुधा-सिंहः — भारतीय-धाविका।
निधनम्
१९५० — स्वामी सहजानन्द-सरस्वती — राष्ट्रवादी-नेता स्वतन्त्रता-संग्राम-सेनानी च।२००९ — शिवचरण-माथुरः —राजस्थानस्य दशमः मुख्यमन्त्री।२००९ — माइकल् जैक्सन् — विश्वविख्यातः अमेरिकीयः पॉप-गायकः।२०१९ — मोहन-रानाडे — गोवा-मुक्ति-आन्दोलनस्य प्रमुखः स्वतन्त्रता-सेनानी।
Hindusthan Samachar / Divya Ranjan