छिन्दवाडानगरम् — अद्य जनपदस्तरीय-रोजगार-, स्वरोजगार- तथा अप्रेन्टिसशिप-मेलापकस्य आयोजनम्
छिन्दवाडानगरम्, २४ जूनमासः (हि.स.)। मध्यप्रदेशस्य छिन्दवाडानगरे जनपद-रोजगारकार्यालयेन शासकीय-औद्योगिक-प्रशिक्षणसंस्थया च संयुक्तरूपेण ‘युवा-सङ्गम’ कार्यक्रमस्य अन्तर्गतं जनपदस्तरीय-रोजगार-स्वरोजगार- तथा अप्रेन्टिसशिप-मेलापकस्य आयोजनम् अद्य बुधवासरे
इंदौर में रोजगार मेले का आयोजन


छिन्दवाडानगरम्, २४ जूनमासः (हि.स.)। मध्यप्रदेशस्य छिन्दवाडानगरे जनपद-रोजगारकार्यालयेन शासकीय-औद्योगिक-प्रशिक्षणसंस्थया च संयुक्तरूपेण ‘युवा-सङ्गम’ कार्यक्रमस्य अन्तर्गतं जनपदस्तरीय-रोजगार-स्वरोजगार- तथा अप्रेन्टिसशिप-मेलापकस्य आयोजनम् अद्य बुधवासरे प्रातः ११वादनतः सायं ४वादनपर्यन्तं शासकीय-औद्योगिक-प्रशिक्षणसंस्थायां क्रियते।

जनपद-रोजगार-अधिकारिणी माधुरी भलावी अवदत् यत् रोजगारमेलापके अष्ट निर्माण्य: सहभागिन्यः भविष्यन्ति। इच्छुकाः अभ्यर्थिनः स्वस्य रोजगार-कार्यालयस्य जीवित-पञ्जीकरणम्, समग्र-परिचयपत्रम् तथा समग्र-कर्गदान्/जीवनवृत्तान्तं च आदाय निर्धारितसमये संस्थायामुपस्थित्य रोजगारमेलापकस्य लाभं प्राप्तुं शक्नुवन्ति।

तया उक्तं यत् कृष्णा बेल्ट प्राइवेट लिमिटेड, सतनूर इत्यनेन सञ्चालक-पदाय आईटीआई तथा डिप्लोमा-धारिभ्यः (आयुः १८–२५ वर्षाणि) प्रतिमासं १३,७५० तः १४,००० रूप्यकाणां वेतनं निर्धारितम् अस्ति। एमआरएफ टायर्स प्राइवेट लिमिटेड, भरूच इत्यनेन यन्त्र-सञ्चालक-पदाय १८–२५ वर्षवयस्कानाम् अभ्यर्थिनां नियुक्तिः भविष्यति। अस्मिन् दशम-, द्वादशकक्षोत्तीर्णानां तथा आईटीआई-उत्तीर्णानां प्रतिमासं १८,००० रूप्यकाणि, स्नातक-डिप्लोमा-धारिणां (पुरुषाणाम्) १९,५०० रूप्यकाणि तथा बी.टेक्-उत्तीर्ण-महिलाभ्यः २०,५०० रूप्यकाणां वेतनं प्रदास्यते।

तथैव अपोलो टायर्स प्राइवेट लिमिटेड, वडोदरा इत्यनेन यन्त्र-सञ्चालक- तथा अप्रेन्टिसशिप-प्रशिक्षु-पदयोः कृते द्वादश-कक्षोत्तीर्णानां, आईटीआई-, स्नातक- तथा डिप्लोमा-धारिणां (आयुः १८–२५ वर्षाणि) प्रतिमासं १७,३१६ तः १८,३१६ रूप्यकाणां वेतनं प्रदास्यते। याजाकी प्राइवेट लिमिटेड, गुजरात इत्यनेन असेम्बली-सञ्चालक-पदाय दशम-द्वादशकक्षोत्तीर्णानां, आईटीआई-स्नातक- तथा डिप्लोमा-धारिणां (आयुः १८–२५ वर्षाणि) प्रतिमासं २०,७७९ तः ३१,८८१ रूप्यकाणां वेतनं प्रदास्यते। बालाजी वेफर्स प्राइवेट लिमिटेड, पीथमपुर इत्यनेन उत्पादन-, गुणवत्तानियन्त्रण- तथा पैकिंग-पदेषु आईटीआई-योग्यताधारिभ्यः (आयुः १८–२८ वर्षाणि) प्रतिमासं १५,८०० रूप्यकाणां वेतनं प्रदास्यते। माहले इञ्जिन-कम्पोनेन्ट् प्राइवेट लिमिटेड, पीथमपुर इत्यनेन उत्पादनविभागे, सीएनसी- तथा वीएमसी-यन्त्र-सञ्चालक-पदेषु आईटीआई-, डिप्लोमा- (विद्युत् एवं यान्त्रिकी) तथा बी.टेक्-धारिभ्यः (आयुः १८–३० वर्षाणि) प्रतिमासं १८,००० तः २२,५०० रूप्यकाणां वेतनं प्रदास्यते।

अतिरिक्तरूपेण भारतीय-जीवन-बीमा-निगमः (एलआईसी), छिन्दवाडा इत्यनेन बीमा-सखी-पदाय दशम- तथा द्वादशकक्षोत्तीर्णाभ्यः १८–७० वर्ष-वयस्काभ्यः महिलाभ्यः प्रतिमासं ७,००० रूप्यकाणां वेतनं प्रदास्यते। तथा अम्बुजा फाउण्डेशन प्राइवेट लिमिटेड, छिन्दवाडा इत्यनेन विद्युत्कार-पदाय द्वादश-कक्षोत्तीर्णानां, स्नातकानां तथा आईटीआई-योग्यताधारिणां (आयुः १८–३० वर्षाणि) प्रतिमासं १०,००० तः १५,००० रूप्यकाणां वेतनं प्रदास्यते।

Hindusthan Samachar / Divya Ranjan