दिल्ली विधानसभा अध्यक्षो लद्दाखस्य उपराज्यपालेन सह मेलनम्
नव दिल्ली, 24 जूनमासः (हि.स.)। दिल्लीविधानसभायाः अध्यक्षः विजेन्द्रगुप्तः स्वस्य लद्दाखअध्ययनप्रवासस्य समये लद्दाखस्य उपराज्यपालं विनयकुमारसक्सेनं शिष्टाचारभेटार्थं समागच्छत्। अस्मिन् अवसरे तेन सह दिल्लीविधानसभायाः सदस्यौ सूर्यप्रकाशखत्री, संजयगो
दिल्ली विधानसभा के अध्यक्ष विजेंद्र गुप्ता ने लद्दाख के उपराज्यपाल विनय कुमार सक्सेना से शिष्टाचार मुलाकात करते हुए


नव दिल्ली, 24 जूनमासः (हि.स.)।

दिल्लीविधानसभायाः अध्यक्षः विजेन्द्रगुप्तः स्वस्य लद्दाखअध्ययनप्रवासस्य समये लद्दाखस्य उपराज्यपालं विनयकुमारसक्सेनं शिष्टाचारभेटार्थं समागच्छत्। अस्मिन् अवसरे तेन सह दिल्लीविधानसभायाः सदस्यौ सूर्यप्रकाशखत्री, संजयगोयलः तथा अहीरदीपकचौधरी अपि उपस्थितौ आस्ताम्। अस्यां बैठके शासनम्, विकासः, सततप्रगतिः तथा क्षेत्रस्य सम्मुखे विद्यमानाः पर्यावरणीयचुनौतयः इत्यादयः महत्त्वपूर्णविषयाः विषये सार्थकविमर्शस्य अवसरः प्राप्तः। एषा सूचना एकस्मिन् वक्तव्ये प्रदत्ता।

बैठकायां उपराज्यपालेन लद्दाखस्य केन्द्रशासितप्रदेशत्वप्राप्तेः अनन्तरं तत्र सम्पन्नमानानां व्यापकविकासकार्याणां विषये जानकारी प्रदत्ता। तेन उक्तं यत् लद्दाखे जनपदानां संख्या द्वाभ्यां वर्धयित्वा सप्त कृता, येन प्रशासनिकपहुंचः सुदृढा अभवत् तथा विकासकार्येषु गतिः अपि वर्धिता। उपराज्यपालेन क्षेत्रे प्रचलमानानां महत्त्वपूर्णानाम् अवसंरचनात्मकपरियोजनानां, विशेषतः सामरिकसुरङ्गाणां तथा सम्पर्कसुविधानां निर्माणकार्याणां उल्लेखः अपि कृतः। एतानि कार्याणि वर्षपर्यन्तम् अबाधितगमनागमनस्य सुनिश्चितीकरणे, आर्थिकविकासस्य प्रवर्धने तथा स्थानीयनागरिकानां जीवनस्तरस्य उन्नयने महत्त्वपूर्णां भूमिकां निर्वहिष्यन्ति।

विधानसभाध्यक्षः विजेन्द्रगुप्तः उपराज्यपालं दिल्लीविधानसभया डिजिटलप्रशासनस्य तथा पर्यावरणीयस्थायित्वस्य क्षेत्रे कृताभिः विविधाभिः नवीनपहलाभिः अवगतवान्। तेन राष्ट्रियईविधानअनुप्रयोगस्य नेवा इत्यस्य सफलक्रियान्वयनस्य उल्लेखः कृतः तथा उक्तं यत् अनेन कागदोपयोगे उल्लेखनीया न्यूनता अभवत्। तेन बहूनां वृक्षाणां संरक्षणे सहायता प्राप्ता तथा विधानसभायाः कार्यक्षमतायाम् अपि वृद्धिः अभवत्।

गुप्तेन एतदपि सूचितं यत् दिल्लीविधानसभापरिसरे स्थापितेन पञ्चशतकिलोवाटक्षमतायुक्तेन सौरऊर्जासंयन्त्रेण विद्युतोपभोगे उल्लेखनीया बचतः अभवत्। तेन उक्तं यत् सौरऊर्जाक्षमतायाः अतिरिक्तत्रिशतकिलोवाटवृद्धेः योजनायाः कार्यम् प्रचलति। अस्याः योजनायाः पूर्णतायां विधानसभाया विद्युतावश्यकतानां पूर्तौ प्रायः आत्मनिर्भरता प्राप्ता भविष्यति।

------------

Hindusthan Samachar / Dheeraj Maithani