Enter your Email Address to subscribe to our newsletters

धमतरीनगरम्, जूनमासस्य २४ दिनाङ्कः (हि.स.)। आधुनिककृषेः प्रोत्साहनार्थं कुण्डेल-बडी-करेलीग्रामे ड्रोन-सेवायाः शुभारम्भः अभवत्। अस्य कार्यक्रमस्य मुख्यातिथिः रायपुर-जनपद-सहकारी-केन्द्रीय-धनागारस्य अध्यक्षः निरञ्जन-सिन्हा बहुसंख्यकेभ्यः कृषकेभ्यः ग्राम्यप्रबुद्ध-जनेभ्यश्च सम्बोधनम् अकरोत्। सः अवदत् यत् आधुनिक-प्रौद्योगिक्याः जनकल्याणकारी-योजनानां च माध्यमेन कृषकाः समृद्धाः भवेयुः। कृषकाः नूतन-प्रौद्योगिक्याः उपयोगं कुर्वन्तु।
कार्यक्रमस्य अवसरे करेली-जनपद-सहकारी-केन्द्रीय-धनागारेण हिम्मतलालसाहू तथा राधेरामनिषाद: इत्येताभ्यां गोपालनार्थं स्वीकृत-ऋणस्य धनादेशौ प्रदत्तौ। एष: प्रयत्न: कृषकाणां पशुपालकानां च आयवृद्धये तथा ग्रामीणार्थव्यवस्थायाः सुदृढीकरणाय महत्त्वपूर्ण: पदक्षेपः अस्ति। अस्माकं सङ्कल्पः अस्ति यत् सहकारितया, आधुनिक-प्रौद्योगिक्या तथा जनकल्याणकारी-योजनाभिः कृषकाः समृद्धाः भवेयुः, कृषिः लाभप्रदा भवेत्, ग्रामाश्च आत्मनिर्भरतां प्रति अग्रसराः भवेयुः।
अस्मिन्नवसरे जनपद-पञ्चायत-अध्यक्षः बीरेन्द्रसाहू, मण्डलाध्यक्षः मेघाकल्याण-सिंहराजपूतः, पूर्व-जनपदाध्यक्षः श्यामसाहू, करेली-नगरपञ्चायत-अध्यक्षः महेन्द्रसाहू, नगरपञ्चायत-उपाध्यक्षः टोपरामः, प्राधिकृताधिकारी गोपालसाहू इत्यादयः अनेके जनप्रतिनिधयः, कृषकबान्धवाः ग्रामवासिनश्च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan