Enter your Email Address to subscribe to our newsletters

फर्रुखाबादम्,24 जूनमासः (हि.स.)।गङ्गादशहरापर्वणः अवसरे पाञ्चालघाटे सहस्रशः श्रद्धालवः गङ्गायां स्नानं कृत्वा आध्यात्मिकानन्दं मानसिकशान्तिं च अनुभूतवन्तः। अस्मिन् समये भक्तानां विशालसमागमात् मार्गाः सङ्कीर्णाः इव अभवन्। अनेकवारं पाञ्चालघाटे यातायातावरोधः अपि अभवत्, किन्तु पुलिसप्रशासनस्य सतर्कतया यातायातव्यवस्था शीघ्रमेव पुनः सुचारुरूपेण प्रवर्तिता। अन्येषु अपि जनपदस्य शृङ्गीरामपुरे, ढाईघाटे, धूमघाटे च श्रद्धालूनां महती भीड दृष्टा। प्रातः चतुर्वादनात् आरभ्य गङ्गास्नानकार्यक्रमः समाचारलेखनसमयपर्यन्तं निरन्तरं प्रवृत्तः आसीत्।
अपरपुलिसाधीक्षकः गिरीशचन्द्रः स्वयम् स्थले उपस्थितः स्थित्वा व्यवस्थायाः निरीक्षणं कृतवान्। गङ्गास्नानकाले पीएसी दलस्य तैरकाः जवानाः नौकाभिः भ्रमन्तः सुरक्षाव्यवस्थायाः निरीक्षणं कुर्वन्तः आसन्। मेले बहुसंख्यया महिला पुलिसबलस्य अपि नियुक्तिः आसीत्।
अस्मिन् अवसरे मातुः गङ्गायाः तीरे स्थितस्य पौराणिकस्य हनुमानगढी अमेठी कोहना भैरवघाटमन्दिरस्य समीपे त्रिदिवसीयः मूर्तिप्राणप्रतिष्ठा पूजनानुष्ठानस्य अद्य समापनं भवति। कार्यक्रमस्य संयोजकः राजीवकुमाररस्तोगी अवदत् यत् द्वाविंशतितमदिनात् त्रयोविंशतितमदिनपर्यन्तं प्रवृत्ते अस्मिन् अनुष्ठाने माता गङ्गा, यमुना, सरस्वती तथा गोस्वामितुलसीदासस्य मूर्तीनां वैदिकविधिना प्रतिष्ठापनं सम्पन्नम्।
चतुर्विंशतितमे दिने प्राणप्रतिष्ठानन्तरं हवनस्य विशालभण्डारस्य च आयोजनं कृतम् अस्ति। भण्डारः अपराह्णे एकवादनात् प्रारभ्यते। आयोजकौ मुन्नालालगुप्तः राजीवकुमाररस्तोगी च सर्वान् श्रद्धालून् प्रसादग्रहणार्थम् आमन्त्रितवन्तौ।
पाञ्चालघाटनिवासी बच्चास्वामी अवदत् यत् पुरुषोत्तममासस्य कारणेन अस्मिन् वर्षे द्विवारं दशहरापर्व मन्यते। उभययोः दशहरापर्वणोः अवसरे भक्ताः पूर्णभक्त्या गङ्गास्नानं कृतवन्तः। तेन एतदपि उक्तं यत् गङ्गाभक्तानां कृते पाञ्चालघाटे अनेकस्थानेषु भण्डारव्यवस्था निरन्तरं प्रवर्तते।
---------------
Hindusthan Samachar / Dheeraj Maithani