गुरुग्रामे अधुना बिना पंजीकरणस्य न पालयितुं शक्यते कुक्कुरम्
-नगर निगम गुरुग्रामे पालितकुक्कुराणां पंजीकरणं कृतं अनिवार्यम् -सार्वजनिक सुरक्षा एवं नागरिक सुविधां ध्याने संस्थाप्य निर्गतो निर्देशः गुरुग्रामः, 24 जूनमासः (हि.स.)। नगरनिगम गुरुग्रामेन नगरे पालितश्वानानां पञ्जीकरणं नियन्त्रणं सार्वजनिकसुरक्षाय
गुरुग्राम निगमायुक्त प्रदीप दहिया व नगर निगम कार्यालय।


-नगर निगम गुरुग्रामे पालितकुक्कुराणां पंजीकरणं कृतं अनिवार्यम्

-सार्वजनिक सुरक्षा एवं नागरिक सुविधां ध्याने संस्थाप्य निर्गतो निर्देशः

गुरुग्रामः, 24 जूनमासः (हि.स.)। नगरनिगम गुरुग्रामेन नगरे पालितश्वानानां पञ्जीकरणं नियन्त्रणं सार्वजनिकसुरक्षायाः सुनिश्चितीकरणं च साधयितुं महत्त्वपूर्णाः आदेशाः निर्गताः। निगमायुक्तेन प्रदीपदहियामहोदयेन निर्गतानाम् आदेशानाम् अनुसारं नगरनिगमक्षेत्रे निवसद्भिः नागरिकैः स्वपालितश्वानस्य पञ्जीकरणं करणीयमेव। एते आदेशाः तत्क्षणप्रभावेन प्रवृत्ताः अभवन्।

नगरनिगमाय गतकाले पालितश्वानैः दंशघटनानां, सार्वजनिकस्थलेषु अनियन्त्रितभ्रमणस्य, अपञ्जीकृतश्वानपालनस्य तथा निर्धारितनियमानाम् अवहेलनासम्बद्धाः बहवः अभियोगाः प्राप्ताः आसन्। एतादृशानां घटनानां परिप्रेक्ष्ये नागरिकानां सुरक्षा जनस्वास्थ्यस्य हितं च दृष्ट्वा एषः निर्णयः स्वीकृतः।

आदेशानुसारं नगरनिगमसीमाक्षेत्रे प्रत्येकस्य पालितश्वानस्य पञ्जीकरणं करणीयं तथा समये समये तस्य नवीकरणमपि करणीयम्। पञ्जीकरणार्थं पालितपशूनां स्वामिनः ऑनलाइनपोर्टलद्वारा अथवा नगरनिगमस्य नागरिकसुविधाकेन्द्रेषु आवेदनं कर्तुं शक्नुवन्ति। आवेदनपत्रेण सह स्वामिनः परिचयपत्रं, श्वानस्य छायाचित्रं, रेबीजरोगप्रतिरक्षणप्रमाणपत्रं तथा अन्यावश्यकदस्तावेजाः समर्पणीयाः।

पालितश्वानस्वामिनां कृते निर्गतानि दिशानिर्देशानि

नगरनिगमेन निर्गतानाम् निर्देशानाम् अनुसारं पालितश्वानः सर्वदा नियन्त्रणाधीनः स्थापनीयः। सार्वजनिकमार्गेषु, उद्यानेषु, हरितपट्टिकासु, विपणिक्षेत्रेषु च तम् मुक्तरूपेण विचरितुं न अनुमन्यते। गृहात् बहिः नयतः समये तस्य पट्टबन्धनम् अनिवार्यं भविष्यति। श्वानस्य मलमूत्रस्य शौचव्यवस्थापनस्य उत्तरदायित्वं सम्बन्धितस्वामिनः एव भविष्यति। रेबीजरोगसहितानां अन्येषां निर्धारितटीकाकरणानां समये समये सम्पादनम् अनिवार्यम्। यदि श्वानेन कस्यचित् व्यक्तेः अथवा पशोः हानिः, भयप्रदर्शनं वा आक्रमणं क्रियते तर्हि तस्य उत्तरदायित्वं स्वामिनः एव भविष्यति।

विपज्जनकप्रजातीनां कृते विशेषप्रावधानानि

नगरनिगमेन भारतसर्वकारस्य पशुपालनदुग्धविकासविभागेन चिह्नितानां विपज्जनकानाम् आक्रामकस्वभावयुक्तानां श्वानप्रजातीनां कृते विशेषदिशानिर्देशाः निर्गताः। एतासु प्रजातिषु पिटबुल टेरियर, रॉटवीलर, डोगो अर्जेंटीनो, केन कोर्सो, अकिता, मास्टिफ इत्यादयः अन्याश्च चिह्निताः प्रजातयः समाविष्टाः सन्ति।

एतेषां श्वानानां स्वामिभ्यः त्वरितं पञ्जीकरणं कर्तुं, सर्वदा नियन्त्रणं धारयितुं, पट्टस्य मुखरक्षावरणस्य च उपयोगं कर्तुं तथा सार्वजनिकसुरक्षायाः सुनिश्चितीकरणं कर्तुं निर्देशाः प्रदत्ताः।

नगरनिगमेन स्पष्टतया उक्तं यत् एतेषाम् आदेशानाम् अवहेलनां कुर्वतां पालितपशुस्वामिनां विरुद्धं प्रचलितविधिनियमानुसारं कार्यवाही क्रियिष्यते। गम्भीरप्रकरणेषु दाण्डिककार्यवाही अपि क्रेतुं शक्यते।

Hindusthan Samachar / Dheeraj Maithani