बाङ्ग्लादेशः- अन्ताराष्ट्रिय-बिग-कैट-एलायन्स-सङ्घस्य सदस्यत्वम् अलभत
नवदेहली, २४ जूनमास: (हि.स.)। बाङ्ग्लादेशः अपि अन्ताराष्ट्रिय-बिग-कैट-एलायन्स-इत्यस्य सदस्यराष्ट्रत्वेन सम्मिलितः। बुधवासरे आईबीसीए-सङ्घेन बाङ्ग्लादेशस्य नूतन-सदस्यराष्ट्रत्वेन स्वागतं कृतम्। आईबीसीए-सङ्घेन स्वस्य एक्स-माध्यमे प्रकाशिते सन्देशे बाङ
अंतरराष्ट्रीय बिग कैट एलायंस का लोगो


नवदेहली, २४ जूनमास: (हि.स.)। बाङ्ग्लादेशः अपि अन्ताराष्ट्रिय-बिग-कैट-एलायन्स-इत्यस्य सदस्यराष्ट्रत्वेन सम्मिलितः। बुधवासरे आईबीसीए-सङ्घेन बाङ्ग्लादेशस्य नूतन-सदस्यराष्ट्रत्वेन स्वागतं कृतम्।

आईबीसीए-सङ्घेन स्वस्य एक्स-माध्यमे प्रकाशिते सन्देशे बाङ्ग्लादेश-सर्वकारस्य नवीन-सदस्यराष्ट्रत्वेन हार्दिकं स्वागतं कृतम्। एषा महत्त्वपूर्णा उपलब्धिः बिग-कैट-प्रजातीनां तेषां प्राकृतिक-वासस्थानानां च संरक्षणाय अन्ताराष्ट्रिय-सहकार्यं अधिकं सुदृढं करिष्यति इति उक्तम्।

सङ्घेन उक्तं यत् बाङ्ग्लादेशस्य अस्मिन् सङ्घटने समावेशेन वन्यजीव-संरक्षणे, जैव-विविधता-संरक्षणे तथा पारिस्थितिकी-तन्त्राणां संरक्षणे वैश्विक-प्रयत्नाः नूतनां गतिं प्राप्स्यन्ति। अयं निर्णयः भविष्यवंशानां कृते व्याघ्रै: सह अन्येषां वन्यप्रजातीनां तेषां वासस्थानानां च संरक्षणे सदस्यराष्ट्राणां सामूहिक-प्रतिबद्धतामपि प्रकाशयति।

अन्ताराष्ट्रिय-बिग-कैट-एलायन्स विश्वासं प्रकटितवान् यत् सदस्यराष्ट्राणां मध्ये वर्धमानं सहकार्यं बिग्-कैट्-संरक्षणस्य लक्ष्यसिद्धौ तथा प्रकृतेः साम्यावस्थायाः परिरक्षणे महत्त्वपूर्णां भूमिकां निर्वहिष्यति।

Hindusthan Samachar / Divya Ranjan