दिल्ल्यां केंद्रीय सचिवालय मेट्रोस्थानके मेट्रो के सेंट्रल विस्टा कॉरिडोर इत्यस्य कार्याणां शुभारंभः
नव दिल्ली, 24 जूनमासः (हि.स.)। केन्द्रीयआवासनगरकार्यमन्त्रिणा तथा विद्युत्मन्त्रिणा मनोहरलालेन बुधवासरे केन्द्रीयसचिवालयमेट्रोस्थानके देहलीमेट्रोस्य सेण्ट्रलविस्टाकॉरिडोरकार्यस्य शुभारम्भः कृतः। अस्मिन् अवसरे आवासनगरकार्यमन्त्रालयस्य सचिवः तथा डी
केंद्रीय आवास और शहरी मामलों और बिजली मंत्री मनोहर लाल खट्टर ने सेंट्रल सेक्रेटेरिएट मेट्रो स्टेशन पर दिल्ली मेट्रो के सेंट्रल विस्टा कॉरिडोर के काम की शुरुआत करते हुए


नव दिल्ली, 24 जूनमासः (हि.स.)।

केन्द्रीयआवासनगरकार्यमन्त्रिणा तथा विद्युत्मन्त्रिणा मनोहरलालेन बुधवासरे केन्द्रीयसचिवालयमेट्रोस्थानके देहलीमेट्रोस्य सेण्ट्रलविस्टाकॉरिडोरकार्यस्य शुभारम्भः कृतः। अस्मिन् अवसरे आवासनगरकार्यमन्त्रालयस्य सचिवः तथा डीएमआरसी अध्यक्षः के श्रीनिवासः अन्यैः वरिष्ठाधिकारिभिः सह उपस्थितः आसीत्। मनोहरलालः अवदत् यत् देहल्याः नगरीयपरिवहनाधारसंरचनां सुदृढीकर्तुं दिशि एषः महत्त्वपूर्णः पदक्षेपः अस्ति।

अयं कॉरिडोरः कर्तव्यभवनम्, इण्डियागेट्, राष्ट्रिययुद्धस्मारकम् तथा उच्चतमन्यायालयम् इत्यादीनि प्रमुखानि राष्ट्रियसंस्थानानि स्मारकस्थलानि च प्रति सुगमसंपर्कं प्रदास्यति। अनेन प्रतिदिनं सहस्रशः कर्मचारिणः, नागरिकाः तथा यात्रिकाः लाभान्विताः भविष्यन्ति। प्रमुखमेट्रोमार्गैः सह उत्तमसमन्वयेन राजधानीनगरे यात्रा अधिका सुगमा कार्यक्षमा च भविष्यति। प्रधानमन्त्री नरेन्द्रमोदिनः आधुनिकनागरिककेन्द्रिताधारसंरचनाविषयकदृष्ट्या प्रेरितः अयं महत्त्वपूर्णः प्रकल्पः यात्रायाः मूल्यवान् समयः रक्षिष्यति तथा यात्रिकाणां सुविधां वर्धयिष्यति।

डीएमआरसी संस्थया प्रकाशिते वक्तव्ये उक्तं यत् एतत् स्थानकं वर्तमानमज्जेण्टारेखायाः जनकपुरीपश्चिमात् आरकेआश्रममार्गपर्यन्तस्य विस्ताररूपेण पञ्चमचरणस्य उपचरणे निर्मीयते। केन्द्रीयसचिवालयस्थानकं त्रिसंपर्कस्थानकरूपेण विकसितं भविष्यति, यत्र नूतना मज्जेण्टारेखा वर्तमानपीतरेखया तथा वायलेटरेखया सह सुगमतया सम्बद्धा भविष्यति। अस्याः विशेषसुविधायाः लाभः शासकीयकर्मचारिभ्यः तथा लुटियन्सक्षेत्रे समीपवर्तिषु प्रशासनिकक्षेत्रेषु गच्छद्भ्यः आगच्छद्भ्यः च यात्रिकेभ्यः भविष्यति।

अयं कॉरिडोरः ९.९१३ किलोमीटरदीर्घः अस्ति तथा अस्मिन् नव भूमिगतस्थानकानि सन्ति— शिवाजीस्टेडियम्, युगेयुगीनभारतम्, केन्द्रीयसचिवालयम्, कर्तव्यभवनम्, इण्डियागेट्, युद्धस्मारकउच्चन्यायालयस्थानकम्, बडोदाभवनम्, भारतमण्डपम् तथा इन्द्रप्रस्थम्। अयं प्रकल्पः नूतनदेहल्याः प्रमुखक्षेत्रेषु संपर्कसुविधां सुदृढीकर्तुं दिशि महत्त्वपूर्णः उपक्रमः अस्ति। अनेन प्रमुखशासकीयकार्यालयेषु, न्यायिकसंस्थासु, राष्ट्रियस्मारकेषु तथा सम्मेलनसुविधासु सुगमगमनागमनसुविधा भविष्यति। तेन सह सम्पूर्णजालस्य क्षमता तथा यात्रिकाणां सुविधा अपि अधिका उन्नता भविष्यति।

-------------

Hindusthan Samachar / Dheeraj Maithani