Enter your Email Address to subscribe to our newsletters

-भारतेन सह ऐतिहासिक व्यापारसहमतिः अत्यन्तं समीपे अमेरिकी अधिकारी
नवदिल्ली, 24 जूनमासः (हि.स)।
भारतस्य अमेरिका-देशस्य च मध्ये अन्तरिमव्यापारसहमतेः सिद्धिः अत्यन्तं समीपे वर्तते। अधुना वार्तालापः शुल्करियायताभ्यः प्राप्तलाभेषु, विपणिप्रवेशे तथा वाशिङ्गटन-प्रशासनेन आरोपितस्य अस्थायिनः दशप्रतिशतात्मकस्य आयातशुल्कस्य कृते निर्धारितायां २४ जुलै-अन्तिमसीमायां केन्द्रितः अस्ति।
भारत-अमेरिका-देशौ नूतनदिल्लीस्थिते वाणिज्यभवने सम्पन्नायां द्विदिवसीयायां मन्त्रिस्तरीयबैठके प्रस्तावितस्य द्विपक्षीयव्यापारसम्झौतस्य (बीटीए) प्रमुखविषयाणां समीक्षां कृतवन्तौ। एतेषु विषयेषु उन्नतविपणिप्रवेशः, डिजिटलव्यापारः तथा अशुल्कीयबाधानां न्यूनीकरणं प्रमुखतया समाविष्टम् आसीत्। एषा बैठक केन्द्रीयवाणिज्योद्योगमन्त्री पीयूषगोयल-महोदयस्य अमेरिकीयव्यापारप्रतिनिधेः जेमिसनग्रीर-महोदयस्य च मध्ये अभवत्।
वार्तालापस्य मुख्यकेन्द्रबिन्दुः अन्तरिमसम्झौतस्य अन्तिमरूपप्रदानस्य उपायेषु आसीत्। एषः सम्झौताः व्यापकद्विपक्षीयव्यापारसम्झौतस्य दिशि महत्त्वपूर्णं चरणं भविष्यति।
बैठके उभयपक्षौ २४ फेब्रुवरी-दिने अमेरिकया स्वसर्वव्यापारसहभागिषु आरोपितस्य दशप्रतिशतात्मकस्य अस्थायिशुल्कस्य समयसीमासमाप्तेः पूर्वं वार्तालापस्य अन्तिमरूपप्रदानविषये विस्तृतचर्चां कृतवन्तौ। एतानि शुल्कानि २४ जुलै-दिने समाप्तिं यास्यन्ति। अस्य सम्झौतस्य रूपरेखा अस्मिन् वर्षे फेब्रुवरी-मासे उद्घोषिता आसीत्।
केन्द्रीयवाणिज्योद्योगमन्त्री पीयूषगोयल-महोदयस्य अनुसारम् अद्य प्रातःकाले अमेरिकीयव्यापारप्रतिनिधिना राजदूतेन जेमिसनग्रीर-महोदयेन तस्य प्रतिनिधिमण्डलेन च सह बैठकानां एकः चरणः सम्पन्नः। गोयल-महोदयः अवदत् यत् वयं भारत-अमेरिकयोः मध्ये प्रचलन्तीनां व्यापारवार्तानां प्रगतिं समीक्षितवन्तः तथा च स्वकीयाम् आर्थिकसहभागितां अधिकं सुदृढां कर्तुं उपायान् चर्चितवन्तः। तेन उक्तं यत् अहं राजदूतग्रीर-महोदयस्य नेतृत्वस्य तथा उभयदलयोः निरन्तरप्रयत्नानां प्रशंसां करोमि, येषां प्रयासैः अस्माकं वार्तालापः रचनात्मकतया भविष्याभिमुखतया च अग्रे नीतः अस्ति।
एकस्य वरिष्ठस्य अमेरिकीयाधिकारिणः अनुसारम् अमेरिका तथा भारतम् ऐतिहासिकद्विपक्षीयव्यापारसम्झौतस्य अन्तिमरूपप्रदाने ‘अत्यन्तं समीपे’ स्तः। तेन उक्तं यत् एषः सम्झौताः १४० कोटिजनसंख्यायुक्तं भारतीयविपणिं पारस्परिकहितकारिषु तथा उभयपक्षलाभप्रदेषु शर्तेषु अमेरिकीयवस्तूनां कृते उद्घाटयिष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani