राज्यसभासदस्येन बैजनाथरामेण सह मारवाड़ी-युवा-मञ्चस्य प्रतिनिधिमण्डलस्य शिष्टाचारसाक्षात्कार:
राञ्चीनगरम्, जूनमासस्य २४ दिनाङ्कः (हि.स.)। झारखण्ड-प्रान्तीय-मारवाड़ी-युवा-मञ्चस्य प्रतिनिधिमण्डलं नवनिर्वाचितं राज्यसभासदस्यं बैजनाथरामम् तस्य निवासस्थाने शिष्टाचारसाक्षात्कारार्थम् अगच्छत्। प्रतिनिधिमण्डलेन राज्यसभासदस्यत्वे निर्वाचितत्वस्य निमि
राज्यसभा सांसद से मुलाकात करते मारवाड़ी मंच के सदस्यगण


राञ्चीनगरम्, जूनमासस्य २४ दिनाङ्कः (हि.स.)। झारखण्ड-प्रान्तीय-मारवाड़ी-युवा-मञ्चस्य प्रतिनिधिमण्डलं नवनिर्वाचितं राज्यसभासदस्यं बैजनाथरामम् तस्य निवासस्थाने शिष्टाचारसाक्षात्कारार्थम् अगच्छत्। प्रतिनिधिमण्डलेन राज्यसभासदस्यत्वे निर्वाचितत्वस्य निमित्तं तस्मै हार्दिक्य: शुभकामनाः अभिनन्दनं च प्रदत्तम्।

प्रतिनिधिमण्डलेन बुधवासरे नवनिर्वाचितस्य राज्यसभासदस्यस्य सफलसंसदीयकार्यकालस्य कामना कृता। तैः विश्वासः व्यक्तीकृतः यत् तस्य नेतृत्वे झारखण्डस्य विकाससम्बद्धाः तथा जनहितसम्बद्धाः विषयाः राष्ट्रियस्तरे प्रभावीरीत्या प्रस्तूयिष्यन्ते। मिलनस्य अवसरे मञ्चस्य पदाधिकारीभिः सङ्गठनस्य पक्षतः राज्यव्यापिनः सामाजिक-, सेवा- तथा जनजागरण-कार्यक्रमाणां विषये अपि सूचना प्रदत्ता।

प्रतिनिधिमण्डलेन उक्तं यत् सामाजिक-सङ्गठनानां जनप्रतिनिधीनां च मध्ये समन्वयेन समाजस्य विविधवर्गाणां समस्यासमाधाने सहायता भवितुम् अर्हति। एतदतिरिक्तं सामाजिकसहभागिता तथा जनसेवासम्बद्धविषयेष्वपि चर्चा अभवत्।

अस्मिन्नवसरे उपस्थितैः सदस्यैः बैजनाथरामस्य अभिनन्दनं कृतम् तथा तस्य सफलकार्यकालस्य शुभकामनाः प्रदत्ताः।

प्रतिनिधिमण्डले प्रान्तीयाध्यक्षः विशाल-पाड़िया, महामन्त्री दीपकगोयंका, कोषाध्यक्षः विकासझाझरिया, प्रान्तीय-संयोजकः अमितशर्मा, राञ्ची-शाखाध्यक्षः विकासअग्रवालः, सचिवः मुकेशशर्मा, कोषाध्यक्षः अनीशसरावगी तथा अन्ये पदाधिकारिण: उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan