अंताराष्ट्रिय ओलंपिक दिवसे करीडोत्सवस्य आयोजनं, क्रॉस कंट्रीधावने मांगु ईचागुटूः प्रतिका महतो च विजेत्र्यौ
पश्चिमी सिंहभूमः, 24 जूनमासः (हि.स.)। अन्ताराष्ट्रियओलम्पिकदिवसस्य अवसरे पश्चिमीसिंहभूमजनपदस्य ओलम्पिकसङ्घेन झारखण्डसर्वकारस्य पर्यटनकला संस्कृतिक्रीडायुवकार्यविभागेन च संयुक्ततत्त्वावधानेन बुधवासरे बिरसामुण्डा अन्तःक्रीडाङ्गणपरिसरे क्रीडामहोत्सवस्
क्रॉस कंट्री रेस में भाग लेने वाले खिलाड़ी


क्रॉस कंट्री रेस में भाग लेने वाले खिलाड़ी


क्रॉस कंट्री रेस में भाग लेने वाले खेलाडी


पश्चिमी सिंहभूमः, 24 जूनमासः (हि.स.)। अन्ताराष्ट्रियओलम्पिकदिवसस्य अवसरे पश्चिमीसिंहभूमजनपदस्य ओलम्पिकसङ्घेन झारखण्डसर्वकारस्य पर्यटनकला संस्कृतिक्रीडायुवकार्यविभागेन च संयुक्ततत्त्वावधानेन बुधवासरे बिरसामुण्डा अन्तःक्रीडाङ्गणपरिसरे क्रीडामहोत्सवस्य आयोजनं कृतम्। अस्मिन् अवसरे आयोजितायां महिला पुरुषवर्गयोः क्रॉसकण्ट्री धावनस्पर्धायां जनपदस्य विभिन्नप्रदेशेभ्यः आगताः षण्णवतिः क्रीडकाः सहभागित्वं कृत्वा स्वकीयां क्रीडाप्रतिभां प्रदर्शितवन्तः।

क्रीडामहोत्सवस्य अन्तर्गतं आयोजितायां प्रायः अष्टकिलोमीटरदीर्घायां क्रॉसकण्ट्री धावनस्पर्धायां क्रीडकानां मध्ये रोमहर्षकः प्रतिस्पर्धाभावः दृष्टः। पुरुषवर्गे प्रतिभागिभिः विजयप्राप्त्यर्थं उत्कृष्टं प्रदर्शनं कृतम्। अन्ते मांगु ईचागुटू उत्कृष्टप्रदर्शनेन प्रथमस्थानं प्राप्तवान्। भीमो चन्दन द्वितीयस्थाने स्थितवान्, बिन्दराय पुरती तृतीयस्थानं प्राप्तवान्। सेलाय सुण्डी चतुर्थस्थाने तथा मथियस सुण्डी पञ्चमस्थाने स्थितवन्तौ।

महिलावर्गस्य स्पर्धा अपि अत्यन्तं स्पर्धात्मकाभवत्। प्रतिका महतो उत्कृष्टधावनप्रदर्शनेन प्रथमस्थानं प्राप्तवती विजेत्री च अभवत्। पिंकी देवगम द्वितीयस्थानं प्राप्तवती, शीला बानरा तृतीयस्थानं प्राप्तवती। सोनामुनी लागुरी चतुर्थस्थाने तथा प्रीति तियु पञ्चमस्थाने स्थितवत्यौ।

स्पर्धायाः समापनानन्तरम् आयोजिते पुरस्कारवितरणसमारोहे विजेतृक्रीडकाः सम्मानिताः। प्रशिक्षु प्रशासनिकाधिकारिणी ईरा जोरवाल, अनुमण्डलपुलिसपदाधिकारी बहामन टुटी, जनपदक्रीडापदाधिकारी मरकस हेम्ब्रम, जनपदओलम्पिकसङ्घस्य अध्यक्षः नितिनप्रकाशः तथा महासचिवः अजयकुमारनायकः क्रीडकान् नगदपुरस्कारैः, ट्रॉफीभिः, टीशर्टवस्त्रैः, प्रशस्तिपत्रैश्च सम्मानितवन्तः। अधिकारिभिः क्रीडकाः भविष्ये अपि उत्कृष्टप्रदर्शनाय प्रेरिताः तथा क्रीडामाध्यमेन स्वस्थं अनुशासितं च जीवनं स्वीकर्तुं सन्देशः प्रदत्तः।

कार्यक्रमस्य सफलसञ्चालने तकनीकीपदाधिकारी कश्मीर कान्डेयांग, अर्जुन महाकुड, दीपक पासवान, राजू बिरूवा, संजीवकुमार बाहन्दा, नरेन्द्र बारी, मानकी कुदादा, बैगो पुरती, गुरूचरण कुदादा, संगीता पाट पिंगुवा, शुभदिया बानरा तथा मुकुन्द बानरा सहितैः अनेकैः क्रीडाकर्मिभिः स्वयंसेवकैश्च महत्त्वपूर्णा भूमिका निर्वाहिता। आयोजनसमित्या सर्वेभ्यः सहयोगिभ्यः कृतज्ञता व्यक्ता।

अस्मिन् अवसरे जनपदओलम्पिकसङ्घस्य पदाधिकारिणः अवदन् यत् ओलम्पिकदिवससप्ताहस्य अन्तर्गतं जनपदे विविधक्रीडास्पर्धानां आयोजनं निरन्तरं भविष्यति। निर्धारितकार्यक्रमानुसारं पञ्चविंशतितमे जूनदिने चक्रधरपुरे मुक्केबाजीस्पर्धा, षड्विंशतितमे जूनदिने चाईबासायां कराटेस्पर्धा तथा सप्तविंशतितमे जूनदिने चक्रधरपुरे जिम्नास्टिक ताइक्वाण्डोस्पर्धयोः आयोजनं भविष्यति। तस्मिन्नेव दिने ताइक्वाण्डोस्पर्धास्थले ओलम्पिकदिवससप्ताहस्य समापनसमारोहः अपि आयोज्यते।

आयोजकैः उक्तं यत् एतादृशकार्यक्रमाणां मुख्योद्देश्यः युवसु क्रीडासु रुचिवर्धनम्, ओलम्पिकमूल्यानां प्रचारप्रसारः तथा ग्रामीणनगरीयक्षेत्रयोः क्रीडाप्रतिभानां प्रोत्साहनाय उपयुक्तमञ्चप्रदानं च अस्ति। स्पर्धायां क्रीडकानाम् उत्साहपूर्णसहभागिता एतत् प्रमाणयति यत् जनपदे युवानां मध्ये क्रीडाप्रति आकर्षणं निरन्तरं वर्धते।------------

Hindusthan Samachar / Dheeraj Maithani