Enter your Email Address to subscribe to our newsletters

श्रीनगरम्, २४ जूनमासः (हि.स.)। कश्मीरस्य विभागीयायुक्तः अंशुल-गर्गः बुधवासरे अवदत् यत् प्रशासनं सम्बद्धपक्षाश्च परस्परं सहकार्यं कुर्वन्ति, येन कश्मीरप्रदेशे मुहर्रमोत्सवः शान्तिपूर्णतया सुव्यवस्थिततया च सम्पन्नो भवेत्। एतस्मिन्नेव काले उपत्यका वार्षिक-श्रीअमरनाथ-यात्रायाः सिद्धतां करोति तथा च पर्यटकानां महती उपस्थितिरपि दृश्यते।
मुहर्रमोत्सवस्य अष्टम-दिवसस्य कार्यक्रमेषु पत्रकारैः सह संवादं कुर्वन् गर्गः अवदत् यत् उपराज्यपालस्य मुख्य-मन्त्रिणश्च निर्देशानुसारं व्यापकव्यवस्थाः कृताः सन्ति। तासु व्यवस्थासु जनपदप्रशासनस्य, स्वास्थ्यदलानां तथा अन्यविभागानां कर्मिणः यात्रामार्गेषु नियोजिताः सन्ति।
तेन उक्तं यत् विभिन्नेषु जनपदेषु मुहर्रम-समितिभिः सम्बद्धपक्षैश्च सह विस्तृतचर्चा कृता। तदनन्तरं मुहर्रमोत्सवस्य प्रथम-अष्टम-दशम-दिवसादीनां प्रमुखकार्यक्रमाणां कृते समग्रकार्ययोजना निर्मिता।
सः अवदत्—“निरन्तरं पर्यवेक्षणं क्रियते। शोकप्रदर्शकानां सुविधार्थं तथा च कस्याप्यापत्कालीनस्थितेः समुचितनिवारणार्थं यात्रामार्गेषु सर्वत्र त्वरित-प्रतिक्रिया-दलानि नियुक्तानि सन्ति।”
गर्गः सहकार्याय जनतायै धन्यवादं ज्ञापयन् जनान् प्रार्थितवान् यत् ते जनपदप्रशासनेन निर्गतान् अनुमतिनिर्देशान् परामर्शांश्च पालनं कुर्वन्तु।
तेन उक्तं यत् मुहर्रमोत्सवस्य कार्यक्रमाः प्रायः चत्वारिंशत्-पञ्चाशद्दिनपर्यन्तं प्रवर्तन्ते, अतः तेषां सफलाय आयोजनाय सर्वेषां सम्बद्धपक्षाणां सामूहिकदायित्वम् अपेक्षितम्।
मुहर्रमोत्सवस्य, वार्षिक-अमरनाथयात्रायाः तथा वर्तमान-पर्यटनकालस्य एककालिकत्वम् उल्लिख्य विभागीयायुक्तः अवदत् यत् सर्वासां गतिविधीनां सुचारुप्रबन्धनाय प्रशासनं, सञ्चारमाध्यमानि, स्वयंसेवकाः, सामान्यजनाश्च समन्वयेन कार्यं कुर्वन्तु।
तेन जनाः आहूताः यत् ते यातायात-व्यवस्थापन-योजनासु सहयोगं कुर्वन्तु, आगच्छन्तः तीर्थयात्रिण: पर्यटकांश्च सस्नेहं स्वागतं कुर्वन्तु, आवश्यकतायां च स्वमतं जनपदप्रशासनाय निवेदयन्तु।
गर्गः अवदत् यत् अस्माकं प्रमुखं लक्ष्यं मुहर्रमोत्सवस्य सर्वासां शोभायात्राणां अधिकतमं साहाय्यं प्रदातुम् अस्ति। अस्मिन् वर्षे अमरनाथयात्रायाः सिद्धताः अधिकं सुदृढीकृताः सन्ति, अधिकसंख्यया भक्तानां सहभागेन यात्राकालः सफलः भविष्यतीति। कश्मीरे शान्तिपूर्ण-आयोजनस्य परम्परायां विश्वासं प्रकटयन् सः अवदत् यत् सर्वेषां कार्यक्रमाणां निर्विघ्न-सफलसमाप्तौ जनसहयोगः एव सर्वाधिकं महत्त्वपूर्णः घटकः अस्ति।
Hindusthan Samachar / Divya Ranjan