Enter your Email Address to subscribe to our newsletters

रायपुरम् 24 जूनमासः (हि.स.)।
छत्तीसगढराज्ये भारतीयजनतापक्षस्य प्रदेशकार्यालये कुशाभाऊठाकरेपरिसरे अद्य बुधवासरे प्रदेशपदाधिकारिणां महत्त्वपूर्णा बैठक आरब्धा। अस्यां बैठके सङ्गठनात्मकगतिविधीनां, आगामिकार्यक्रमाणां तथा पक्षस्य रणनीतेः विषये विस्तृतचर्चा क्रियते।
उपवेशने मुख्यमन्त्री विष्णुदेवसायः, भारतीयजनतापक्षस्य प्रदेशाध्यक्षः किरणसिंहदेवः, उपमुख्यमन्त्री अरुणसावः, प्रदेशसङ्गठनमहामन्त्री पवनसायः, प्रदेशमहामन्त्री अखिलेशशोनी तथा डॉ. नवीनमार्कण्डेयः सहिताः प्रदेशस्य वरिष्ठपदाधिकारिणः उपस्थिताः सन्ति।
Hindusthan Samachar / Dheeraj Maithani