पण्डित-दीनदयाल-उपाध्याय-प्रशिक्षण-महाभियानस्य डिजिटल-अधिगम-पटलस्य कार्यशाला सम्पन्ना
रायपुरम्, जूनमासस्य २४ दिनाङ्कः (हि.स.)। भारतीयजनतापक्षस्य प्रदेशकार्यालये कुशाभाऊ-ठाकरे-परिसरे पण्डित-दीनदयाल-उपाध्याय-प्रशिक्षण-महाभियानस्य डिजिटल-अधिगम-पटलस्य कार्यशाला बुधवासरे सम्पन्ना। अस्य प्रशिक्षणस्य माध्यमेन सङ्गठनस्य कार्याणि मतदानकेन्द्
कुशाभाऊ ठाकरे परिसर में आयाेजित पं. दीनदयाल उपाध्याय प्रशिक्षण महाभियान


रायपुरम्, जूनमासस्य २४ दिनाङ्कः (हि.स.)। भारतीयजनतापक्षस्य प्रदेशकार्यालये कुशाभाऊ-ठाकरे-परिसरे पण्डित-दीनदयाल-उपाध्याय-प्रशिक्षण-महाभियानस्य डिजिटल-अधिगम-पटलस्य कार्यशाला बुधवासरे सम्पन्ना। अस्य प्रशिक्षणस्य माध्यमेन सङ्गठनस्य कार्याणि मतदानकेन्द्र-स्तरात् आरभ्य प्रदेशस्तरपर्यन्तं सम्यक् सञ्चालयितुं कार्यकर्तृभ्यः मार्गदर्शनं प्रदत्तम्।

भारतीयजनतापक्षस्य प्रदेशाध्यक्षः किरणदेवः कार्यशालां सम्बोधयन् अवदत् यत् भारतीयजनतापक्षः केवलं निर्वाचनकाले सक्रियः भवति इति न, अपितु तस्य रचनात्मकाः सङ्गठनात्मकाश्च कार्यक्रमाः वर्षपर्यन्तं निरन्तरं प्रवर्तन्ते। पक्षस्य कार्यक्रमाः चतुर्विंशतिहोरा: सर्वदा प्रचलन्ति। प्रशिक्षणकार्याणि प्रदेशस्तरात् आरभ्य जनपदस्तरपर्यन्तं सफलतया सम्पन्नानि सन्ति। अद्यापि निर्वाचनानां कृते प्रायः सार्धत्रिवर्षस्य कालः अवशिष्टः अस्ति, तथापि भारतीयजनतापक्षस्य कार्यकर्ता सर्वासु परिस्थितिषु सज्जः भवति। सः सर्वदा निर्वाचनार्थं सिद्धः तिष्ठति। पक्षस्य कार्यकर्तारः दलस्य कार्यक्रमान् तथा शासनस्य जनकल्याणकारी-योजनाः जनसामान्येषु निरन्तरं प्रचारयन्ति। सः अवदत् यत् पक्षस्य मुख्यलक्ष्यम् एतेषां हितग्राहिणां समीपं योजनानां लाभं प्रापयितुम् अस्ति, येषां कृते ताः योजनाः निर्मिताः सन्ति। एतानि अभियानानि केवलं निर्वाचनं दृष्ट्वा न निर्धारितानि, अपितु जनसेवायै सर्वदा समर्पितानि सन्ति।

प्रदेश-सङ्गठन-महामन्त्री पवनसायः अवदत् यत् भारतीयजनतापक्षस्य कार्यकर्तारः सङ्गठनकार्येषु सदैव सजगाः भवन्ति। प्रशिक्षणस्य माध्यमेन तेषां प्रखरता, प्रवीणता च वर्ध्यते। ते समाजस्य अन्तिमपङ्क्तौ स्थितानां जनानां समीपं गत्वा शासनस्य तथा सङ्गठनस्य कार्याणां विषये जनान् जागरूकान् कुर्वन्ति। प्रशिक्षिताः कार्यकर्तारः सङ्गठनस्य सुदृढीकरणाय कार्यं कुर्वन्ति। तेन उक्तं यत् सङ्गठनेन निर्दिष्टानि कार्याणि निर्धारितसमये सम्पादनीयानि। कार्यकर्तारः स्वकार्यैः सङ्गठनस्य विस्तारं कुर्वन्ति तथा शासनस्य योजनाः जनं जनं प्रति प्रापयन्ति।

प्रदेश-महामन्त्री डाॅ.नवीनमार्कण्डेयः अवदत् यत् आपत्कालस्य तां पीडां विस्मर्तुं न शक्यते, यदा तत्कालीन-प्रधानमन्त्रिण्या देशे आपत्कालः घोषितः आसीत् तथा सम्पूर्णदेशे राजनैतिकसङ्कटस्य परिस्थितिः अभवत्। भाविवंशाय आपत्कालस्य इतिहासः ज्ञापयितुं सर्वेषां कर्तव्यं वर्तते। अस्मिन् विषये पक्षस्य प्रत्येकं कार्यकर्ता कार्यरतः अस्ति।

प्रदेश-उपाध्यक्षः तथा पण्डित-दीनदयाल-उपाध्याय-प्रशिक्षण-महाभियानस्य डिजिटल-अधिगम-पटलस्य प्रदेश-संयोजकः जगन्नाथपाणिग्रही अवदत् यत् भारतीयजनतापक्षः सर्वदा नवाचाराधारितकार्ययोजनां अनुसरति। डिजिटल-प्रणाली अपि तस्याः दिश: एकः नवीनः प्रयासः अस्ति। अनेन माध्यमेन कार्यकर्तारः स्वविचारधारया तथा कार्यपद्धत्या अधिकं सुदृढतया सम्बद्धाः भविष्यन्ति। सम्पूर्णप्रदेशे एतत् अभियानं सञ्चालयिष्यते, अतः एषा सभा आयोजिता।

प्रदेश-उपाध्यक्षः तथा डाॅ.श्यामाप्रसाद-मुखर्जी-जयन्ती-संस्मरण-पक्ष-कार्यक्रमस्य प्रभारी नन्दनजैनः अवदत् यत् जूनमासस्य २३ दिनाङ्के सम्पूर्णदेशे डाॅ. श्यामाप्रसाद-मुखर्जी-महोदयस्य बलिदानदिवसः श्रद्धया आचरितः। जूनमासस्य २३ दिनाङ्कात् जुलाईमासस्य ६ दिनाङ्कपर्यन्तं जनान् तस्य जीवनकार्येषु जागरूकान् कर्तव्यम्। तेन स्मारितं यत् डाॅ. मुखर्जी उद्घोषितवान्— “एकस्मिन् देशे द्वे लक्ष्ये, द्वयं विधानं, द्वौ प्रधानौ न चलतः।” प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे काश्मीरप्रदेशात् अनुच्छेदः ३७० निरस्तः, येन डाॅ. मुखर्जी-महोदयस्य संकल्पः साकारः अभवत्। एषा एव तस्मै यथार्था श्रद्धाञ्जलिः इति तेन उक्तम्।

अस्यां कार्यशालायाम् उपमुख्यमन्त्री अरुणसावः, प्रदेश-महामन्त्री अखिलेश-सोनी, पक्षस्य पदाधिकारीणः, कार्यकर्तारः, जनपदाध्यक्षाः तथा शतशः कार्यकर्तारः उपस्थिताः आसन्। आईटी-प्रकोष्ठस्य प्रदेश-संयोजकः सुनीलपिल्लई अभियानस्य डिजिटल-विषयकं विवरणं प्रस्तुतवान्। कार्यक्रमस्य सञ्चालनं प्रदेश-प्रवक्ता तथा प्रशिक्षण-महाभियान-टोल्याः सदस्या शताब्दीपाण्डेया कृतम् तथा प्रदेश-मन्त्री ऋतुचौरसिया धन्यवादज्ञापनम् अकरोत्।

Hindusthan Samachar / Divya Ranjan