Enter your Email Address to subscribe to our newsletters

मुम्बईनगरम्, २४ जूनमासः (हि.स.)। शिवसेना-दलस्य प्रवक्ता राज्यसभासदस्यश्च संजय-राउतः महाराष्ट्र-विधानसभाध्यक्षस्य राहुल-नार्वेकरस्य मराठीभाषावाचने जातानां त्रुटीनां विषये तीव्रं प्रहारम् अकरोत्। सः बुधवासरे अवदत् यत् यदि राज्ये सामान्यजनान् प्रति मराठीभाषायाः विषये कठोरता पाल्यते, तर्हि विधानसभाध्यक्षस्य विषयेऽपि समानः मापदण्डः प्रवर्तितव्यः। तेन राहुल-नार्वेकरस्य निलम्बनस्य याचना कृता।
पत्रकारैः सह संवादकाले संजय-राउतः अवदत् यत् महाराष्ट्रस्य परिचयः तस्य मराठीभाषया संस्कृत्या च भवति। राज्ये मराठीभाषायाः संवर्धनार्थं निरन्तरम् अभियानानि सञ्चाल्यन्ते तथा च अनेकक्षेत्रेषु मराठीभाषाज्ञानम् अनिवार्यं कर्तुं प्रयत्नाः क्रियन्ते। तेन आरोपः कृतः यत् त्रिचक्रिकाचालकेषु, टैक्सीचालकेषु, आपणिकेषु, पथविक्रेतृषु तथा अन्येषु सामान्यनागरिकेषु मराठीभाषाध्ययनस्य बलं क्रियते, भाषा-अज्ञानस्य कारणेन तेषां जीविकायामपि प्रतिकूलः प्रभावः जायते।
राउतः अवदत् यत् एतादृशे परिवेशे महाराष्ट्र-विधानसभाध्यक्षेन राहुल-नार्वेकरेण सदने शोकप्रस्तावस्य वाचनकाले बह्व्यः त्रुटयः कृताः, यद् गम्भीरः विषयः अस्ति। तस्य कथनानुसारं मङ्गलवासरे शोकप्रस्तावस्य प्रस्तुतिकरणसमये राहुल-नार्वेकरः स्पष्टतया लिखितां मराठीभाषां सम्यक् पठितुं न अशकत् तथा च कतिपयेषु निमेषेषु चत्वारिंशदधिकाः त्रुटयः कृतवान्। सः अपृच्छत् यत् यदा सामान्यजनान् प्रति मराठीभाषायाः विषये कठोराः अपेक्षाः भवन्ति, तदा संवैधानिकपदेषु आसीनानां कृते पृथक् व्यवस्था कथं भवेत्।
व्यङ्ग्यरूपेण संजय-राउतः अवदत् यत् राहुल-नार्वेकरः स्वोपनाम्नः आधारेण “नार्वेदेशस्य निवासी” इति कथयितुं शक्यते। अतः मराठीभाषायाः विषये निर्मितमानदण्डानुसारं तस्य तत्क्षणमेव निलम्बनं करणीयम्। तस्य एषा टिप्पणी राजनीतिक-व्यङ्ग्यरूपेण दृश्यते।
अस्मिन् विवादे मुम्बई-महानगर्याः पूर्व-महापौरा किशोरी-पेडणेकरः अपि सम्मिलिता अभवत्। तया उक्तं यत् विधानसभाध्यक्षः प्रथमकक्षास्तरीयामपि मराठीभाषां सम्यक् पठितुं न अशक्नोत्। तया अपि उक्तं यत् अस्य घटनायाः अनन्तरं राहुल-नार्वेकरेण आत्मचिन्तनं कर्तव्यं तथा भविष्ये पुनरेवं न भवेदिति विशेषसावधानता पालनीया।
विवादस्य वर्धनानन्तरं राहुल-नार्वेकरः बुधवासरे विधानसभायां स्वस्य स्पष्टीकरणं दत्त्वा मराठीवाचने जाताभ्यः त्रुटिभ्यः सार्वजनिकरूपेण दु:खं प्रकटितवान्। तेन उक्तं यत् मङ्गलवासरे सदने द्वादश शोकप्रस्तावाः प्रस्तोतव्याः आसन्, तेषां पाठः अतीव सूक्ष्माक्षरैः लिखितः आसीत्, अतः तेन अनवधानवशात् कतिपयाः त्रुटयः अभवन्।
राहुल-नार्वेकरेण स्पष्टीकृतं यत् तस्मै मराठीभाषायां गौरवम् अस्ति तथा च सः सदा मराठीभाषायाः संस्कृतेः च सम्मानं करोति। तेन उक्तं यत् पूर्वमपि अनेकेषु अवसरेषु मराठीभाषायां प्रस्तावानां तथा अन्यासां संसदीयकार्यवाहीनां सञ्चालनं तेन कृतम्। एषा त्रुटिः अनवधानवशात् अभवत्, यस्य कृते सः राज्यस्य जनतायाः क्षमां याचते। भविष्ये एतादृशी त्रुटिः पुनः न भवेत् इति विषये विशेषसावधानी पालनीयेत्यपि तेन आश्वासनं दत्तम्।
राजनीतिविशेषज्ञानां मते मराठी-भाषाविषयकः अयं विवादः अधुना राजनीतिकरूपं धारयति। विपक्षः अस्य विषयस्य सम्बन्धं मराठी-अस्मितया भाषासम्मानेन च स्थापयित्वा शासनं विधानसभाध्यक्षं च लक्ष्यीकर्तुं प्रयतते, यदा तु राहुल-नार्वेकरः स्वत्रुटिं स्वीकृत्य विवादस्य शमनस्य प्रयत्नं कृतवान्। अग्रिमेषु दिनेषु अयं विषयः राज्यराजनीतौ चर्चायाः प्रमुखविषयः भवितुमर्हति।
Hindusthan Samachar / Divya Ranjan