Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, २४ जूनमासः (हि.स.)। डिजिटलयुगे नागरिकान् साइबर-अपराधेभ्यः सुरक्षितान् स्थापयितुं तथा सुरक्षितं उत्तरदायित्वपूर्णं च डिजिटल-आचरणं प्रोत्साहयितुम् उद्दिश्य मध्यप्रदेश-आरक्षक-दलेन सञ्चालितस्य राज्य-व्यापिनः ‘सेफ क्लिक २.०’ साइबर-जागरूकताभियानस्य शुभारम्भः अद्य बुधवासरे भविष्यति।
आरक्षकमुख्यालयेन प्रदत्तसूचनानुसारं मध्यप्रदेश-आरक्षकविभागस्य अस्य विशेषाभियानस्य उद्देश्यं सामान्यजनान्, विद्यार्थिनः, यूनः, महिलाः तथा वरिष्ठ-नागरिकान् साइबर-वंचना, ऑनलाइन-छलप्रवञ्चना तथा डिजिटलसुरक्षा-सम्बद्धविषयेषु जागरूकान् कर्तुम् अस्ति, येन नागरिकाः सुरक्षितं साइबर-आचरणम् अवलम्ब्य स्वं समाजं च साइबर-अपराधेभ्यः सुरक्षितं रक्षितुं शक्नुयुः।
सूचितं यत् मुख्यमन्त्रिणः डॉ.मोहन-यादवस्य मुख्यातिथ्ये आरक्षक-महानिदेशकस्य कैलाशमकवाणस्य उपस्थितौ बुधवासरे सायंकाले भोपालस्थिते रवीन्द्रभवने आयोजिते शुभारम्भसमारोहे साइबर-जागरूकतारथः हरितध्वजेन प्रेषितः भविष्यति। कार्यक्रमस्य अवसरे साइबर-सुरक्षायाः तथा बालसंरक्षणस्य क्षेत्रे सहयोगस्य सुदृढीकरणार्थम् इण्डिया चाइल्ड प्रोटेक्शन संस्थया सह महत्त्वपूर्णस्य सहमतिपत्रस्य हस्ताक्षराणि अपि भविष्यन्ति।
विद्यार्थिषु साइबर-सुरक्षाविषये जागरूकतां विकसितुं निर्मिता विशेषा साइबर-जागरूकतापुस्तिका अपि विमोचिता भविष्यति। अस्याः उपयोगः प्रदेशस्य विद्यालयेषु जागरूकताकार्यक्रमेषु भविष्यति। अस्मिनवसरे ‘सेफ क्लिक २.०’ अभियानस्य विशेष-चलचित्रस्य अप्यनावरणं भविष्यति, यस्य माध्यमेन नागरिकेभ्यः सुरक्षितडिजिटल-आचरणस्य, साइबर-छलप्रवञ्चनाभ्यः रक्षणस्य तथा सतर्कतासम्बद्धाः महत्त्वपूर्णाः सन्देशाः प्रदास्यन्ते।
समारोहस्य अन्तर्गतं मुख्यमन्त्रिणः पुरतः साइबर-सुरक्षाविषयाधारितस्य मार्ग-नाटिकायाः प्रदर्शनमपि भविष्यति, या सरलप्रभावकारीमाध्यमेन जनसामान्यं साइबर-अपराधानां विषये जागरूकं करिष्यति। तदतिरिक्तं प्रदेशस्य विभिन्न-जनपदेषु व्यापकजनजागरूकता-कार्यक्रमाणां सञ्चालनार्थं सज्जीकृतः साइबर-जागरूकतारथः मुख्यमन्त्रिणा हरितध्वजं प्रदर्श्य प्रेषितः भविष्यति। अयं रथः समग्रे प्रदेशे भ्रमणं कृत्वा नागरिकेभ्यः साइबर-सुरक्षासम्बद्धान् सन्देशान् प्रसारयिष्यति।
Hindusthan Samachar / Divya Ranjan