Enter your Email Address to subscribe to our newsletters

खण्डवानगरम्, २३ जूनमासः (हि.स.)। मध्यप्रदेशस्य खण्डवाजनपदस्य तीर्थनगरे ओंकारेश्वरे स्थितस्य अतिप्राचीनस्य श्रीममलेश्वरमहादेवमन्दिरस्य परिसरे विद्यमाने श्रीवृद्धकालेश्वरमहादेवमन्दिरे मङ्गलवासरे अभिजित्-मुहूर्ते विधिवत् पूजनार्चनानन्तरं भक्तानां कृते दर्शनव्यवस्था प्रारब्धा।
विदुषः पण्डितसुधीर-अत्रेः आचार्यत्वे एषा पूजाविधिः सम्पन्ना। अस्मिन् अवसरे सन्तमण्डलस्य अध्यक्षः महन्तः मङ्गल-दासत्यागीमहाराजः तथा ममलेश्वर-मन्दिरस्य पूजारीपरिवारस्य सदस्याश्च उपस्थिताः आसन्। जनपद-प्रशासनेन शताब्दीपुरातनस्य श्रीवृद्ध-कालेश्वर-महादेवमन्दिरस्य कपाटान् उद्घाट्य पूजार्चनायाः पुनः प्रारम्भः कारितः, येन श्रद्धालवः अत्यन्तं प्रहृष्टाः अभवन्।
उल्लेखनीयं यत् एतत् मन्दिरं गतचत्वारिंशद्वर्षेभ्यः निमीलितम् आसीत्। श्रद्धालूनां धार्मिकभावनाः दृष्ट्वा समाहर्ता ऋषवगुप्तः पुरातत्त्वविभागेन सह विचारविमर्शं कृत्वा मन्दिरस्य कपाटोद्घाटनस्य व्यवस्थां कारितवान्।
तहसीलदारः उदयमण्डलोई अवदत् यत् अधुना भक्ताः प्रतिदिनं भोलेनाथस्य दर्शनं कर्तुं शक्नुवन्ति। दर्शनव्यवस्था मन्दिर-द्वारस्य बहिः भविष्यति। गर्भगृहे केवलं भोगारार्तिक्यर्थं पूजारिणः एव प्रवेशं प्राप्स्यन्ति। गर्भगृहस्य लघुपरिमाणं दृष्ट्वा एषा व्यवस्था कृता।
Hindusthan Samachar / Divya Ranjan