Enter your Email Address to subscribe to our newsletters

कांठमांडूः, 24 जूनमासः (हि.स.)।
नेपालदेशस्य चीनदेशस्य च मध्ये प्रथमायाः अन्तरदेशीयविद्युत्प्रसारणरेखायाः निर्माणस्य सम्भावना अधिका सुदृढा जाता अस्ति। सरकारेण “चिलिमे केरुङ जिलोङ २२० केवी अन्तरदेशीयप्रसारणरेखा” परियोजनायाः कार्यान्वयनार्थं चीनदेशाय प्रत्युत्तरपत्रं प्रेषयितुं निर्णयः कृतः। एतेन सह दीर्घकालात् चर्चायां स्थितायाः अस्याः परियोजनायाः निर्णायकचरणे प्रवेशः अभवत्।
अनेन निर्णयेन नेपालदेशः भारतदेशस्य बाङ्गलादेशस्य च अनन्तरं उत्तरदिशि स्थितेन चीनदेशेन सह अपि विद्युत्व्यापारस्य दिशि सामरिकं महत्त्वपूर्णं पदम् अग्रे न्यस्तवान्। वर्तमानकाले नेपालदेशस्य अन्तरदेशीयविद्युत्व्यापारः भारतीयप्रसारणप्रणाल्याः माध्यमेन भवति। अतः चीनदेशेन सह प्रत्यक्षप्रसारणरेखायाः संयोजनम् ऊर्जाक्षेत्रे ऐतिहासिकलब्धिरिति मन्यते।
प्रस्ताविता प्रसारणरेखा चीनदेशस्य तिब्बतस्वायत्तप्रदेशस्य सिगात्से क्षेत्रे स्थितात् जिलोङ काउण्टीतः प्रारभ्यते। जिलोङ नेपाल चीन सीमायाः उत्तरीयप्रदेशे स्थितं प्रमुखं वाणिज्यकेन्द्रम् अस्ति।
एषा प्रसारणरेखा चीनदेशस्य भागे प्रायः चतुःनवतिः किलोमीटरपरिमिता तथा नेपालदेशस्य भागे प्रायः षड्विंशतिः किलोमीटरपरिमिता भविष्यति। अस्याः कुलदीर्घता प्रायः विंशत्यधिकशतकं किलोमीटराणि भविष्यति। एषा रेखा रसुवागढी मार्गेण गत्वा रसुवा प्रदेशस्य चिलिमे केन्द्रं प्राप्स्यति।
नेपाल चीन अन्तरदेशीयप्रसारणरेखापरियोजनायाः प्रमुखः कोमलनाथ आत्रेयः अवदत् यत् उभयदेशयोः मध्ये अन्तिमकार्यन्वयनसम्झौतस्य तैयारी प्रचलति। तेन उक्तम् यत् “विदेशमन्त्रिणः चीनयात्राकाले अस्य विषयस्य उच्चप्राथमिकतया विचारः कृतः। अधुना उभयपक्षयोः मध्ये अन्तिमसम्झौत एव अवशिष्टः अस्ति। सरकारस्य पत्रं स्वीकृतिप्रक्रियायाम् अस्ति तथा वयं आशांस्महे यत् शीघ्रमेव सम्झौतस्य सम्पूर्णता भविष्यति।”
आत्रेयस्य अनुसारं प्रारम्भिकयोजनायां उभयदेशाभ्यां स्वस्वभूभागे निर्माणकार्यं स्वतन्त्ररूपेण करणीयम् आसीत्। परन्तु पश्चात् चीनदेशेन नेपालदेशीयभागस्य निर्माणमपि अनुदानाधारेण कर्तुं प्रस्तावः प्रस्तुतः। तेन कारणेन परियोजनायाः कार्यान्वयनपद्धत्यां परिवर्तनं कर्तव्यम् अभवत्।
नेपालदेशः दीर्घकालात् चीनदेशेन सह अस्याः प्रसारणरेखायाः निर्माणार्थं औपचारिकप्रयत्नान् कुर्वन् अस्ति। सन् २०१७ तमे वर्षे तत्कालीनोपप्रधानमन्त्री विदेशमन्त्री च कृष्णबहादुर महरा इत्यस्य चीनयात्राकाले अस्याः परियोजनायाः प्रगत्यर्थं प्रारम्भिकसहमतिः अभवत्। ततः अनन्तरं सन् २०१८ तमे वर्षे तत्कालीनप्रधानमन्त्रिणः केपी शर्मा ओली इत्यस्य चीनयात्राकाले अग्रिमकार्यविधिः निर्धारिता।
सन् २०२३ तमे वर्षे तत्कालीनप्रधानमन्त्रिणः पुष्पकमल दाहाल इत्यस्य चीनयात्राकाले उभयदेशाभ्यां जिलोङ केरुङ रसुवागढी चिलिमे २२० केवी प्रसारणरेखायाः शीघ्रनिर्माणाय सहमतिः प्रदर्शिता। पुनः सन् २०२५ तमे वर्षे प्रधानमन्त्री केपी शर्मा ओली इत्यस्य चीनयात्राकाले एषा परियोजना बेल्ट एण्ड रोड इनिशिएटिव् इति योजनायाः अन्तर्गतं समावेशिता।
बीआरआई कार्यान्वयनरूपरेखायां समाविष्टासु दशसु परियोजनासु एषा सर्वाधिकप्रगतिं प्राप्ता परियोजना मन्यते। एतस्मात् कारणात् नेपालदेशे बीआरआई योजनायाः अन्तर्गतं कार्यान्वितायाः प्रथमायाः ठोसाधारभूतसंरचनापरियोजनायाः रूपेण अस्याः परियोजनायाः अवलोकनं क्रियते।
---------------
Hindusthan Samachar / Dheeraj Maithani