Enter your Email Address to subscribe to our newsletters

लखनऊ, 24 जूनमासः (हि.स.)।
समाजवादीपक्षस्य राष्ट्रियाध्यक्षेण अखिलेशयादवेन मध्यप्रदेशस्य मुख्यमन्त्रिणः मोहनयादवस्य, राजस्थानस्य मुख्यमन्त्रिणः भजनलालशर्मणः तथा उत्तरप्रदेशस्य मुख्यमन्त्रिणः योग्यादित्यनाथस्य पदच्युतिसम्बन्धि वक्तव्यं प्रदत्तम्। तदनन्तरम् उत्तरप्रदेशसर्वकारे मन्त्रित्वेन कार्यरतः सुहेलदेवभारतीयसमाजपक्षस्य अध्यक्षः ओमप्रकाशराजभरः सामाजिकमाध्यमेषु तीव्रं प्रतिउत्तरं दत्तवान्। राजभरेण ‘एक्स’ इत्यस्मिन् मुक्तपत्रं प्रकाशित्य अखिलेशयादवस्य विरुद्धं अनेकान् गम्भीरान् आरोपान् कृतवान् तथा तस्य सम्बन्धिजनानां कथितनिवेशविषये प्रश्नान् उत्थापितवान्। तेन प्रकाशितेन पत्रेण राजनैतिकवृत्तेषु व्यापकः स्पन्दनः जातः।
स्वपत्रे राजभरेण उक्तं यत् अखिलेशयादवः मोहनयादवस्य नाम्ना “अनावश्यककोलाहलं” करोति तथा वास्तविकविषयात् जनमानसं विमोहयितुं प्रयतते। तेन दावा कृतः यत् मध्यप्रदेशसंवर्गस्य वरिष्ठः प्रशासनिकाधिकारी भरतयादवः, यः वर्तमानकाले मध्यप्रदेशराज्यमार्गविकासनिगमस्य अध्यक्षः अस्ति, सः समाजवादीपक्षस्य पूर्वकोषाध्यक्षस्य वरिष्ठनेतुः चन्द्रपालयादवस्य जामाता अस्ति। राजभरेण आरोपः कृतः यत् अखिलेशयादवः एतत् सम्बन्धं सार्वजनिकरूपेण गोपयति।
राजभरेण सैफईपरिवारमपि लक्ष्यीकृत्य उक्तं यत् “भूम्यधिग्रहणसम्बद्धेषु विषयेषु सैफईपरिवारः अत्यन्तमनुभवी अस्ति।” तेन लखनऊ आग्रा द्रुतमार्गपरियोजनायाः उल्लेखं कृत्वा आरोपितं यत् समाजवादीपक्षस्य शासनकाले द्रुतमार्गस्य मार्गरेखा सैफईप्रदेशपर्यन्तं परिवर्तिता, येन केचन जनाः भूम्यधिग्रहणेन प्रतिकरप्राप्त्या च लाभान्विताः अभवन्।
राजभरेण एतदपि उक्तं यत् गोमतीनदीतटविकासपरियोजनायाः प्रतिवेदनस्य प्रकाशनानन्तरं समाजवादीपक्षस्य नेतृत्वं चिन्तितम् अस्ति तथा मध्यप्रदेशसम्बद्धपरियोजनानां तथ्यानां परीक्षणस्य सम्भावनया सन्त्रस्तम् अस्ति। तेन अन्वेषणसंस्थानानां प्रति आग्रहः कृतः यत् मध्यप्रदेशे उत्तरप्रदेशस्य के के प्रभावशालिनः जनाः निवेशं कृतवन्तः इति विषयः सम्यक् परीक्ष्यताम्।
एतेषां आरोपाणां विषये समाजवादीपक्षस्य पक्षतः अद्यावधि कापि आधिकारिकप्रतिक्रिया न प्राप्ता।
---------------
Hindusthan Samachar / Dheeraj Maithani