कतार-अमीरः प्रधानमन्त्रिणे दूरभाषेण रास-लाफान-दुर्घटनायां भारतीयानां निधनविषये शोकं प्रकटितवान्
नवदेहली, २४ जूनमासः (हि.स.)। प्रधानमन्त्रिणं नरेन्द्रमोदिनं प्रति कतारदेशस्य अमीरः शेख-तमीम-बिन-हमद-अल-थानी दूरभाषेण सम्पर्कं कृत्वा गत-२१ जून-दिने कतारदेशस्य रास-लाफान-औद्योगिक-नगरे अभवद्दुर्घटनायां द्वादश-भारतीय-नागरिकाणां निधनविषये शोकं प्रकटितव
कतर विस्फोट का दृश्य


नवदेहली, २४ जूनमासः (हि.स.)। प्रधानमन्त्रिणं नरेन्द्रमोदिनं प्रति कतारदेशस्य अमीरः शेख-तमीम-बिन-हमद-अल-थानी दूरभाषेण सम्पर्कं कृत्वा गत-२१ जून-दिने कतारदेशस्य रास-लाफान-औद्योगिक-नगरे अभवद्दुर्घटनायां द्वादश-भारतीय-नागरिकाणां निधनविषये शोकं प्रकटितवान् तथा च आहतानां शीघ्र-स्वास्थ्यलाभस्य कामनाम् अकरोत्।

प्रधानमन्त्री शोकसन्तप्त-परिवारेषु संवेदनां प्रकटयितुं कतार-अमीराय धन्यवादम् अददात्। आहतेभ्यः त्वरितया चिकित्सासहायतां प्रदातुं तस्य कृतज्ञतामपि व्यक्तवान्।

प्रधानमन्त्री-कार्यालयस्य सूचनानुसारं गतदिने उभाभ्यां नेतृभ्यां स्व-स्व-नागरिकाणां कल्याणं सुरक्षां च सुनिश्चितीकर्तुं स्वप्रतिबद्धता पुनः प्रतिपादिता। परस्परं सहयोगस्य ऐक्यस्य च भावः अपि पुनः अभिव्यक्तः।

पश्चिम-एशियायाः स्थितेः विषये चर्चायां प्रधानमन्त्री शान्तिस्थापन-प्रयत्नेषु कतारदेशस्य सकारात्मक-योगदानस्य प्रशंसाम् अकरोत् तथा च एतेषां प्रयत्नानां फलस्वरूपेण प्रदेशे स्थायी शान्तिः स्थिरता च भविष्यतीति आशां व्यक्तवान्।

उभौ नेतारौ सर्वेषु क्षेत्रेषु द्विपक्षीय-सहकार्यस्य अधिक-विस्ताराय स्वप्रति-बद्धतां पुनः दृढीकृतवन्तौ। तौ नियमितरूपेण परस्पर-सम्पर्के स्थातुं सहमतिं प्रकटितवन्तौ।

Hindusthan Samachar / Divya Ranjan