युवभ्यः आशानां विशालं नभः उद्घाटितवान् प्रधानमन्त्री नरेन्द्रमोदी - रावतः
अजमेरम्, जून-मासस्य २४ दिनाङ्कः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी युवभ्यः आशानां विशालं नभः उद्घाटितवान् इति राजस्थानस्य जलसंसाधनमन्त्री सुरेशसिंहरावतः किशनगढ-विमानस्थानक-परिसरे स्थितायाम् एवियाना-एविएशन-अकादम्यां प्रशिक्ष्यमाणैः वैमानिकाभ्यर्थिभ
PM Narendra Modi has opened the sky of hope for the youth: Rawat


PM Narendra Modi has opened the sky of hope for the youth: Rawat


अजमेरम्, जून-मासस्य २४ दिनाङ्कः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी युवभ्यः आशानां विशालं नभः उद्घाटितवान् इति राजस्थानस्य जलसंसाधनमन्त्री सुरेशसिंहरावतः किशनगढ-विमानस्थानक-परिसरे स्थितायाम् एवियाना-एविएशन-अकादम्यां प्रशिक्ष्यमाणैः वैमानिकाभ्यर्थिभिः सह संवादं कुर्वन् अवदत्।

सः अवदत् यत् गतद्वादशवर्षेषु भारते यः विकासः अभवत् सः ऐतिहासिकः अस्ति। मुख्यमन्त्रिणः भजनलालशर्मणः निर्देशनानुसारं राजस्थान-शासनं तस्य विकासस्य लाभं सामान्यजनान् प्रति प्रापयितुं कार्यं करोति।

रावतः अवदत् यत् प्रधानमन्त्री-नरेन्द्रमोदिनः शासनकाले किशनगढ-विमानस्थानकस्य निर्माणेन रोजगारस्य नूतनाः अवसराः उत्पन्नाः। अग्रिमेषु कालेषु एतत् विमानस्थानकं राजस्थानस्य प्रमुखेषु विमानस्थानकेषु परिगणितं भविष्यति। प्रशिक्ष्यमाणाः वैमानिकाः अपि महता उत्साहेन अवदन् यत् गतद्वादशवर्षेषु प्रधानमन्त्री नरेन्द्रमोदी युवभ्यः बहूनि हितकराणि कार्याणि कृतवान्। रावतः इदमपि अवदत् यत् अस्याम् अकादम्याम् आगमनस्य तस्य एकम् उद्देश्यम् एतदपि अस्ति यत् राजस्थानस्य युवानः विमानचालका: इत्यादिषु नूतनेषु व्यवसायमार्गेषु जागरूकाः भवेयुः।

अस्मिन् अवसरे रावतः विमानस्य कॉकपिट्-भागे उपविश्य विमानचालनस्य सम्पूर्णां प्रक्रियाम् अवगतवान्। तेन सह विमानस्य अनुरक्षणस्य तथा वायुयान-सञ्चार-नियन्त्रणस्य विषयेऽपि सूचना प्राप्ता।

किशनगढ-विमानस्थानकस्य निदेशकः बी.एस.मीणा वायुयान-उड्डयनसम्बद्धायाः समग्र-प्रक्रियायाः विषये रावतं अवबोधितवान्।

उल्लेखनीयम् अस्ति यत् २०२४ तमस्य वर्षस्य जुलाई-मासे आरब्धायाम् अस्याम् अकादम्याम् अधुना द्वादश एक-इञ्जिन-विमानानि तथा एकं द्वि-इञ्जिन-विमानम् अस्ति। सम्प्रति शतपञ्चाशत् कैडेटछात्रा: विमानचालनस्य प्रशिक्षणं प्राप्नुवन्ति। अद्यावधि शतं युवानः अत्र प्रशिक्षणं प्राप्य स्वभविष्यं उज्ज्वलं कृतवन्तः।

Hindusthan Samachar / Divya Ranjan