जनतादरबारे शुभेन्दु-अधिकारिणा जनानां समस्या: श्रुताः
कोलकातानगरम्, जूनमास: २४ दिनाङ्कः (हि.स.)। पश्चिमबङ्गे सामान्यजनानां समस्याः तथा परिवादान् प्रत्यक्षतया श्रोतुम् आयोजिते ‘जनतादरबार’ कार्यक्रमे बुधवासरे विपक्षनेता शुभेन्दु-अधिकारी जनानां समस्याः अश्रृणोत्। अयं कार्यक्रमः कोलकातानगरस्य साल्टलेक-स्थ
मुख्यमंत्री शुभेंदु अधिकारी जनता दरबार में


कोलकातानगरम्, जूनमास: २४ दिनाङ्कः (हि.स.)। पश्चिमबङ्गे सामान्यजनानां समस्याः तथा परिवादान् प्रत्यक्षतया श्रोतुम् आयोजिते ‘जनतादरबार’ कार्यक्रमे बुधवासरे विपक्षनेता शुभेन्दु-अधिकारी जनानां समस्याः अश्रृणोत्। अयं कार्यक्रमः कोलकातानगरस्य साल्टलेक-स्थिते भारतीयजनतापक्षस्य राज्य-मुख्यालये आयोजितः।

अस्मिन् अवसरे राज्यस्य विभिन्नजनपदेभ्यः आगताः जनाः स्वकीयाः स्थानीयसमस्याः, अपेक्षाः तथा परिवादान् विपक्षनेतुः पुरतः न्यवेदयन्। नागरिकैः प्रशासनिक-सेवाः, मार्गाः, पेयजल-व्यवस्था, स्वास्थ्य-सेवा, शिक्षाक्षेत्रम् तथा शासकीय-योजनाभिः सम्बद्धाः विविधाः विषयाः प्रस्तुताः।

शुभेन्दु-अधिकारी जनानां परिवादान् गम्भीरतया श्रुत्वा सम्बद्धसमस्यानां शीघ्रसमाधानार्थम् आवश्यकानि पदानि ग्रहीष्यन्ते इति आश्वासनम् अददात्। तथा च सम्बद्धविभागान् प्रकरणानां परीक्षणं कृत्वा आवश्यकीं कार्यवाहीं कर्तुम् निर्देशाः प्रदास्यन्ते इत्यपि सूचितम्।

भारतीयजनतापक्षस्य नेतारः वदन्ति यत् ‘जनतादरबार’ कार्यक्रमस्य माध्यमेन सामान्यजनानां समस्याः प्रत्यक्षतया शीर्षनेतृत्वस्य समीपं प्रापयितुं अवसरः लभ्यते। तेषां मतेन अनेन उपक्रमेण प्रशासनस्य जनतायाश्च मध्ये संवादः अधिकं सुदृढः भविष्यति।

कार्यक्रमे राज्यस्य विभिन्नभागेभ्यः बहुसंख्यया जनाः उपस्थिताः अभवन् तथा स्वकीयाः अपेक्षाः विपक्षनेतुः पुरतः न्यवेदयन्।

Hindusthan Samachar / Divya Ranjan