Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, जूनमासस्य २४ दिनाङ्कः (हि.स.)। मुख्यसचिवः एस.पी.गोयलः दृश्यश्रव्य-सम्मेलनस्य माध्यमेन प्रदेशस्य सर्वैः मण्डलायुक्तैः जनपदाधीशैश्च सह साप्ताहिकीं समीक्षासभाम् अकरोत्। अस्यां सभायां विविधानां विकासात्मक-जनकल्याणकारी-योजनानां प्रगतिः समीक्षिता, आवश्यकाः दिशानिर्देशाश्च प्रदत्ताः।
समीक्षायाः समये मुख्यसचिवः अवदत् यत् प्रदेशस्य पीएम-सूर्यगृह-योजनायाम् देशे प्रथमस्थानप्राप्त्यर्थं विशेषप्रयत्नाः क्रियन्ताम्। सः अवदत् यत् उत्तरप्रदेशेन २०२६ तमस्य वर्षस्य मार्च-एप्रिल-मे-मासेषु निरन्तरं त्रिषु मासेषु पञ्चाशत्सहस्राधिकेषु गृहेषु सौर-ऊर्जा-आधारित-संयन्त्राणि स्थापयित्वा देशे नवीनः अभिलेखः स्थापितः। एतस्य उपलब्धेः कृते सः सर्वान् जिलाधीशान् सम्बन्धिताधिकारिणश्च अभिनन्द्य अवदत् यत् सञ्चित-गृह-सौरीकरणे अपि प्रदेशः देशे प्रथमस्थानं प्राप्नुयात् इति विशेषप्रयत्नाः करणीयाः।
अन्नपूर्णा-भवन-निर्माणस्य समीक्षायां मुख्यसचिवः अवदत् यत् वित्तीयवर्षस्य २०२६–२७ कृते पञ्चशतकोटिरूप्यकाणां वित्तीयस्वीकृतिः प्राप्ता अस्ति। त्रयोविंशति-जनपदैः कार्ययोजना प्रेषिता, अवशिष्टैः द्विपञ्चाशत्-जनपदैः भूमेः चिह्नाङ्कनं कृत्वा शीघ्रमेव कार्ययोजना विभागीय-सूचनापटले आरोपणीया। तेन निर्देशः दत्तः यत् भवननिर्माणार्थं तादृशी भूमिः चयननीया या परिवहनमार्गेण सम्बद्धा भवेत् तथा जनावासस्य आवासीयक्षेत्राणां च समीपे वर्तेत। तेन वित्तीयवर्षे २०२५–२६ स्वीकृतानां भवनानां निर्माणकार्येषु शीघ्रता आनेतुं निर्देशाः अपि प्रदत्ताः। अनारब्ध-भवनानां निर्माणकार्यं अविलम्बेन प्रारभ्यताम्। सभायां सूचितं यत् वित्तीयवर्षे २०२५–२६ २,५७६ भवनानां कृते धनराशिः प्रदत्ता आसीत्। तेषु ४६ भवनानां निर्माणं सम्पन्नम्, २,२२८ भवनानि निर्माणाधीनानि सन्ति, तथा ३०२ भवनानां निर्माणकार्यं अद्यापि न प्रारब्धम्।
बालविकास-पुष्टाहार-विभागस्य समीक्षायां मुख्यसचिवः निर्देशान् दत्तवान् यत् येषु जनपदेषु आङ्गनबाडी-कार्यकर्त्रीणां सहायिकानां च रिक्तपदानां पूर्त्यर्थं विज्ञापनानि अद्यापि न प्रकाशितानि, तेषु तत्क्षणमेव विज्ञापनानि प्रकाश्यन्ताम्। सर्वैः जनपदैः नियुक्तिप्रक्रिया समयबद्धरीत्या सम्पन्ना क्रियताम्।
तेन ‘बेटी बचाओ, बेटी पढ़ाओ’ योजनायाः अन्तर्गतं उपलब्धधनराशेः शतप्रतिशतम् प्रभावी-उपयोगः सुनिश्चितः क्रियताम् इति निर्देशः अपि दत्तः। एतदर्थं स्थानीयावश्यकतानुसारं जनजागरूकता-अभियानानि, भित्तिचित्रलेखनम्, मार्ग-नाट्यानि, संवादकार्यक्रमाः तथा अन्याः सृजनात्मक-गतिविधयः आयोजनीयाः इति विशेषबलं दत्तम्। अस्यां सभायां सम्बन्धितविभागानां वरिष्ठाधिकारिणः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan