Enter your Email Address to subscribe to our newsletters

रायपुरम्, 24 जूनमासः (हि.स.)।
लोकनिर्माणविभागस्य सचिवः मुकेश कुमार बंसलः अद्य बुधवासरे वरिष्ठविभागीयाधिकारिभिः तथा प्रतिनिधिभिः सह उपवेशनं कृत्वा राज्ये राष्ट्रियराजमार्गपरियोजनानां कार्यप्रगतेः समीक्षा अकरोत्।
तेन रायपुरनगरस्य पेन्शनबाडा स्थिते राष्ट्रियराजमार्गपरिक्षेत्रस्य मुख्याभियन्तृकार्यालये आयोजितायां गोष्ठ्यां प्रतिनिधिभ्यः निर्माणाधीनमार्गेषु वैकल्पिकमार्गान् अथवा परिवर्तितमार्गान् निर्माय कार्यं कर्तुं निर्देशाः दत्ताः, येन वर्षाकाले जनानां आवागमने कापि समस्या न भवेत्।
तेन केशकालघाटी बायपासमार्गस्य निर्माणकार्ये शीघ्रता आनयितुं तथा मार्गे निर्मीयमाणयोः द्वयोः महतोः सेतुवोः निर्माणकार्यं शीघ्रमेव प्रारम्भयितुं निर्देशः दत्तः। लोकनिर्माणविभागस्य प्रमुखाभियन्ता वी के भतपहरी, केन्द्रीयसडकपरिवहनराजमार्गमन्त्रालयस्य क्षेत्रीयाधिकारी अभिजीत कुमारः तथा भारतीयराष्ट्रियराजमार्गप्राधिकरणस्य क्षेत्रीयाधिकारी आलोक कुमारः अपि समीक्षाबैठके उपस्थिताः आसन्।
भारतीयराष्ट्रीयराजमार्गप्राधिकरणस्य क्षेत्रीयाधिकारी आलोक कुमारःउपवेशने अवदत् यत् भारतमालापरियोजनायाः अन्तर्गतं निर्माणाधीनः रायपुर विशाखापट्टनम् द्रुतमार्गः तथा दुर्ग आरंग बायपासमार्गस्य कार्यं आगामिवर्षस्य मार्चमासपर्यन्तं सम्पन्नं भविष्यति। भारतमालापरियोजनायाः अन्तर्गतमेव निर्माणाधीनस्य रायपुर धनबाद आर्थिकगलियारस्य कार्यमपि तीव्रगत्या प्रचलति।
लोकनिर्माणविभागस्य सचिवः मुकेश कुमार बंसलः छत्तीसगढप्रदेशेन गच्छन्तीनां भारतमालापरियोजनायाः मार्गाणां पूर्णलाभाय राज्यीयमार्गान् तैः सह संयोजयितुं द्विपथीय तथा चतुर्पथीय मार्गाणां प्रस्तावान् निर्मातुं निर्देशान् दत्तवान्, येन एतेषाम् आर्थिकगलियाराणां सम्पूर्णलाभः राज्याय प्राप्तुं शक्येत। तेन उक्तं यत् राष्ट्रियराजमार्गस्य एते मार्गखण्डाः प्रचालिताः सन्तः राज्यस्य आर्थिकसामाजिकविकासाय नूतनां गतिं प्रदास्यन्ति। मालवाहनयात्रीपरिवहनयोः दृष्ट्या एते मार्गाः अत्यन्तं महत्त्वपूर्णाः सन्ति।
लोकनिर्माणविभागस्य सचिवः उपवेशने राष्ट्रियराजमार्गप्राधिकरणेन रायपुरस्य तेलीबांधा चत्वरे, उद्योगभवन चत्वरे तथा सरोना चत्वरे प्रस्तावितानां उड्डयनसेतूनां स्वीकृतेः प्रगतेः अपि जानकारीम् अलभत। तेन लोकनिर्माणविभागस्य अधिकारिणः राष्ट्रियराजमार्गसम्बद्धभूम्यधिग्रहणस्य वनपरिवर्तनसम्बद्धानां च लम्बितप्रकरणानां विवरणं समये समये उच्चकार्यालयेभ्यः प्रेषयितुं निर्देशिताः, येन तेषां शीघ्रनिराकरणार्थम् उच्चस्तरे कार्यवाही कर्तुं शक्येत। तेन विविधेषु जनपदेषु मार्गाणां सेतूनां च निरीक्षणसमये दत्तनिर्देशानां पालनस्य कार्यप्रगतेश्च जानकारी अपि गृहीता।
बंसलः राष्ट्रियराजमार्गनिर्माणकाले कृष्णबिन्दुस्थलानां समूलनाशेन सह मार्गसुरक्षामानदण्डानां कठोरतया पालनं कर्तुं निर्देशान् दत्तवान्। तेन मानदण्डानुरूपमेव मार्गेषु गतिरोधकानां निर्माणं कर्तुम् उक्तम्। तेन सर्वान् अधिकारिणः निरन्तरं क्षेत्रेषु गत्वा कार्याणां सूक्ष्मतया निरीक्षणं कर्तुं, गुणवत्तां सुनिश्चितां कर्तुं तथा निर्धारितसमयसीमायां कार्याणि सम्पन्नानि कारयितुं निर्देशितवान्। तेन गुणवत्ता तथा समयसीमा सर्वोच्चप्राथमिकतया ग्राह्ये इति उक्तम्। लोकनिर्माणविभागस्य राष्ट्रियराजमार्गपरिक्षेत्रस्य मुख्याभियन्ता ज्ञानेश्वर कश्यपः तथा अधीक्षणाभियन्ता एस एस माझी सहिताः पञ्चानां राष्ट्रियराजमार्गमण्डलानां कार्यपालनाभियन्तारः उपमण्डलीयाधिकारिणश्च बैठके उपस्थिताः आसन्।
ठेकेदाराणां बैठकां कृत्वा समस्याः ज्ञाताः, कार्येषु शीघ्रतायै निर्देशाः दत्ताः
लोकनिर्माणविभागस्य सचिवः बंसलः राष्ट्रियराजमार्गनिर्माणकार्ये संलग्नानां ठेकेदाराणां बैठकां कृत्वा कार्यस्थलेषु उत्पद्यमानानां समस्याणां विषये जानकारीम् अलभत। तेन अनुबन्धानुसारं निर्माणकार्येषु अपेक्षितप्रगतिः सुनिश्चितीकरणीयेति तथा गुणवत्ता समये कार्यसमापनं च विषये कश्चन सम्झौतः न करणीयः इति निर्देशाः दत्ताः। तेन उक्तं यत् राष्ट्रियराजमार्गनिर्माणेन राज्यस्य प्रतिष्ठा सम्बद्धा अस्ति। तेषां निर्माणे कस्यापि प्रकारस्य सम्झौतस्य स्वीकृतिः न भविष्यति। निर्धारितसमयावधौ उत्तमकार्यं सम्पादनीयम्।
---------------
Hindusthan Samachar / Dheeraj Maithani