केन्द्रीयराज्यमन्त्री रवनीतसिंह-बिट्टूं प्रति पञ्जाब-अनुसूचितजाति-आयोगेन धार्मिकदण्डः निर्दिष्टः
चण्डीगढनगरम्, २४ जूनमासः (हि.स.)। आरक्षक-कर्मचारिण: प्रति आपत्तिजनक-टिप्पणी-प्रकरणस्य श्रवणकाले पञ्जाब-अनुसूचितजाति-आयोगेन केन्द्रीय-राज्यमन्त्री रवनीतसिंह-बिट्टूं प्रति चतुर्षु धार्मिकस्थलेषु प्रणामं कर्तुं धार्मिकदण्डः निर्दिष्टः। रवनीतसिंह-बिट्ट
केंद्रीय राज्य मंत्री रवनीत बिट्टू एससी आयाेग के समक्ष अपना पक्ष रखते हुए


चण्डीगढनगरम्, २४ जूनमासः (हि.स.)। आरक्षक-कर्मचारिण: प्रति आपत्तिजनक-टिप्पणी-प्रकरणस्य श्रवणकाले पञ्जाब-अनुसूचितजाति-आयोगेन केन्द्रीय-राज्यमन्त्री रवनीतसिंह-बिट्टूं प्रति चतुर्षु धार्मिकस्थलेषु प्रणामं कर्तुं धार्मिकदण्डः निर्दिष्टः। रवनीतसिंह-बिट्टू बुधवासरे स्वविधिवादिभिः सह अनुसूचितजाति-आयोगस्य अध्यक्षस्य जसवीरसिंह-गढी-महोदयस्य पुरतः उपस्थितः स्वपक्षं च प्रस्तुतवान्। तेन उक्तम्— “मम शब्दाः शतप्रतिशतं विधिदृष्ट्या अनुचिताः आसन्, तेषां कृते मया पूर्वमेव क्षमायाचनापि कृता।”

बिट्टू अवदत् यत् प्रथमं तं संगरूर-जनपदे एकेन एस.पी.-पदस्थेन आरक्षक-अधिकारिणा निरुद्धः। तेन सूचितम् यत् ओ.एस.डी. ओङ्कारः बलिया-आरक्षक-स्थानके निग्रहे स्थापितः अस्ति। ततः सः बलिया-आरक्षक-स्थानकं गतः, यत्र पुनः तस्मै उक्तं यत् ओङ्कारः संगरूरम् नीतः। अनन्तरं सः धूरीम् अगच्छत्, यत्र एकेन एस.एच.ओ.-पदस्थेन अधिकारिणा तस्य वाहनस्य पुरतः वाहनं स्थापयित्वा मार्गः अवरुद्धः। तेन आरोपितं यत् तस्मिन् समये तेन सह दुर्व्यवहारः कृतः तथा च केचन शब्दाः उक्ताः येन सः अत्यन्तम् आहतः अभवत्।

बिट्टू उक्तवान् यत् तस्मिन् समये परिस्थितयः अत्यन्तं चिन्तापूर्णाः आसन् तथा आरक्षक-अधिकारिणां व्यवहारात् सः भावाविष्टः अभवत्। तेन स्वीकृतं यत् यदि तस्यापि मुखात् कश्चन आपत्तिजनकः शब्दः निर्गतः स्यात्, तर्हि तस्य कृते सः पत्रकाराणां समक्षं पूर्वमेव क्षमां याचितवान्।

एतस्मात् पूर्वम् आयोगेन बिट्टूं ४ जून तथा १५ जून-दिनाङ्कयोः उपस्थितये समाहूतम् आसीत्, किन्तु सः उपस्थितः नाभवत्। बुधवासरे आयोगेन रवनीतसिंह-बिट्टू तथा तस्य विधिवादिनां तर्कान् श्रुत्वा चतुर्षु धार्मिकस्थलेषु प्रणामं कर्तुं धार्मिकदण्डः निर्दिष्टः। तेन श्रीदरबारसाहिबे, फिल्लौर-स्थिते डेरा-ब्रह्मदासे, अमृतसरस्थिते रामतीर्थे भगवान् वाल्मीकि-महर्षेः डेरे तथा डेरा-सचखण्ड-बल्लां इति स्थलानि गत्वा प्रणामं कृत्वा आशीर्वादः प्राप्त:।

Hindusthan Samachar / Divya Ranjan