Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, २४ जूनमासः (हि.स.)। मध्यप्रदेशस्य राज्यवित्तायोगः अद्य भोपालसम्भागस्य प्रवासे भविष्यति। आयोगः नगरीयनिकायानां तथा पञ्चायतीराजसंस्थानां वित्तीयस्थितेः, पारदर्शितायाः, कार्यगुणवत्तायाः तथा आर्थिकस्वावलम्बनस्य सम्बन्धे भोपालस्य सांसदेन, विधायकैः, उभय-विधनिकाययोः जनप्रतिनिधिभिः तथा सम्भागीयाधिकारिभ्यः विचारान् ग्रहीष्यति।
आयोगस्य अध्यक्षः जयभानसिंहपवैया, सदस्यः के.के.सिंह:, पदेनसदस्यः ऋषिगर्गः तथा सदस्यसचिवः वीरेन्द्रकुमारः सम्भागस्य जनप्रतिनिधिभिः सह सभां करिष्यन्ति। अस्यां सभायां नगरीय-निकायानां तथा पञ्चायती-राजसंस्थानां वित्तीयदृष्ट्या सुदृढीकरणाय, पारदर्शिता-वर्धनाय तथा आत्मनिर्भरता-सम्पादनाय उपायेषु चर्चा भविष्यति।
आयोगः भोपालसम्भागस्य आयुक्तेन, सम्भागान्तर्गतजनपदानां समाहर्तृभिः, मुख्यकार्यपालनाधिकारिभिः जनपद-पञ्चायतानाम्, नगरनिगमायुक्तैः तथा अन्यैः वरिष्ठाधिकारिभिः सह सभां कृत्वा नगरीयनिकायानां पञ्चायतीराजसंस्थानां च वित्तीयस्थितेः विस्तृतसमीक्षां करिष्यति।
जनसम्पर्काधिकारी राजेशपाण्डेयः अवदत् यत् सभायां निकायानां मूलदायित्वेषु, स्वच्छतायाम्, पेयजलव्यवस्थायाम्, विकासकार्याणां गुणवत्तायाम् तथा स्वकीय-राजस्वस्रोतसां वृद्ध्युपायेषु विचारविमर्शः भविष्यति। तदतिरिक्तं नगरीयक्षेत्रेषु पञ्चायतिक्षेत्रेषु च सम्भावित-नवाचारेष्वपि चर्चा भविष्यति। जनप्रतिनिधिभिः सह व्ही.आई.पी. सर्किट-हाउस इत्यत्र मध्याह्ने द्वादशवादनात् एकवादनपर्यन्तं विचारात्मकसभानन्तरम् अपराह्णे त्रिवादने सम्भागायुक्तकार्यालये अधिकारिभिः सह वृहती समीक्षात्मकसभा भविष्यति।
Hindusthan Samachar / Divya Ranjan