Enter your Email Address to subscribe to our newsletters

नवदेहली, २४ जूनमासः (हि.स.)। भारतीय-दूरसञ्चार-विनियामक-प्राधिकरणेन राजस्थानस्य मनोहरपुरतः दौसा-पर्यन्तं राष्ट्रियराजमार्गे सञ्चालितस्य चलदूरभाष-जालगुणवत्तायाः स्वतन्त्र-वाहन-परीक्षणस्य प्रतिवेदनं प्रकाशितम्। प्रतिवेदनानुसारं दत्तांश-अवतरण-गतौ रिलायन्स-जियो-संस्था प्रथमस्थाने स्थिता, यदा तु बीएसएनएल-संस्थायाः प्रदर्शनं सर्वाधिकं दुर्बलम् अभवत्।
ट्राई प्राधिकरणेन उक्तं यत् एतत् वाहन-परीक्षणं गत-द्वितीय-मे-दिनाङ्के राजस्थान-अनुज्ञापत्र-सेवा-क्षेत्रे मनोहरपुरतः दौसा-पर्यन्तं ६२.२ किलोमीटर-दीर्घे मार्गे सम्पन्नः। अस्य परीक्षणस्य उद्देश्यं विभिन्न-दूरसञ्चार-सेवा-प्रदातृभिः प्रदत्तानां वाणी-सेवानां दत्तांश-सेवानां च वास्तविक-स्थितेः मूल्याङ्कनम् आसीत्।
प्रतिवेदनानुसारं रिलायन्स-जियो-संस्थायाः औसत-दत्तांश-अवतरण-गतिः २४७.०१ एमबीपीएस अभिलेखिता। एयरटेल-संस्थायाः १०२.८० एमबीपीएस, वोडाफोन-आइडिया (वीआई)-संस्थायाः ३५.९७ एमबीपीएस, बीएसएनएल-संस्थायाः तु केवलं ३.९९ एमबीपीएस एव अभवत्।
दत्तांश-आरोहण-गतौ एयरटेल-संस्था २०.९३ एमबीपीएस-गत्या प्रथमस्थाने आसीत्। जियो-संस्थायाः आरोहण-गतिः १९.१४ एमबीपीएस, वीआई-संस्थायाः १७.२५ एमबीपीएस, बीएसएनएल-संस्थायाः १.८८ एमबीपीएस अभिलेखिता।
सङ्केत-व्याप्तेः अभावस्य दृष्ट्या बीएसएनएल-संस्थायाः प्रदर्शनं सर्वाधिकं दुर्बलम् आसीत्। परीक्षणकाले बीएसएनएल-संस्थायाः २२१३ प्रतिदर्शेषु सङ्केतः निर्धारित-न्यूनतम-स्तरात् अधः प्राप्तः। एयरटेल-संस्थायाः २१७, जियो-संस्थायाः १८९, वीआई-संस्थायाः ४२० प्रतिदर्शेषु अपि तथैव अभवत्।
वाणी-सम्पर्क-विच्छेदस्य विषये एयरटेल-संस्थायाः प्रदर्शनम् उत्तमम् आसीत्, तस्याः जाले एकोऽपि सम्पर्क-विच्छेदः न अभवत्। जियो-जाले एकः, वीआई-जाले द्वौ, बीएसएनएल-जाले षट् सम्पर्क-विच्छेदाः अभिलेखिताः।
ट्राई-प्राधिकरणस्य अनुसारं वाहन-परीक्षणस्य मार्गः लाखेर, नेकवाला, चिलपाली-मोडः, बहलोर, रईसार, पावटा, सङ्कोटरा, आन्धी, रामजीपुर तथा झेरा-क्षेत्रैः गच्छति स्म। परीक्षणस्य निष्कर्षाः आवश्यक-सुधारात्मक-कार्यवाह्यर्थं सम्बन्धित-दूरसञ्चार-सेवा-प्रदातृभ्यः प्रेषिताः।
Hindusthan Samachar / Divya Ranjan