Enter your Email Address to subscribe to our newsletters

कोलकातानगरम्, २४ जूनमासः (हि.स.)। पश्चिमबङ्गाले प्रवर्तन-निदेशालयेन भूम्यधिग्रहणम्, धनापहरणम्, अवैध-धन-व्यवहारश्च सम्बद्धे सोना-पप्पू-प्रकरणे अन्वेषणस्य व्याप्तिः विस्तारिताऽस्ति। केन्द्रीय-अभिकरणेन कोलकाता-आरक्षक-विभागस्य पूर्व-उपायुक्तस्य शान्तनु-सिन्हा-विश्वासस्य निकटवर्तिनः इति कथ्यमानान् त्रीन् आरक्षक-अधिकारिणः पृच्छार्थं समाहूतवन्तः। तेषु दक्षिण-कोलकातायां नियुक्तः एकः उपनिरीक्षकः अपि सम्मिलितः अस्ति।
सूत्रानुसारम्, ईडी-संस्थया कसबा-क्षेत्रस्य व्यवसायिनः विश्वजीत-पोद्दारस्य उर्फ सोना-पप्पू इत्यस्य पत्नी सोमा तथा तस्याः परिवारस्य अन्ये सदस्याः अपि अस्मिन् सप्ताहे केन्द्रीय-अन्वेषण-अभिकरणस्य कार्यालये उपस्थातुं निर्दिष्टाः। अभिकरणं सोना-पप्पू-सम्बद्धानां वित्तीय-व्यवहाराणां सम्पत्तीनां च विषये पृच्छां कर्तुम् इच्छति।
दक्षिण-कोलकातास्थित-बालीगञ्ज-निवासिनः सोना-पप्पू-विरुद्धं भूम्यधिग्रहणस्य, धनापहरणस्य तथा अन्येषां आपराधिक-प्रकरणानाम् आरोपाः सन्ति। तस्य विरुद्धं शस्त्र-अधिनियमस्य अन्तर्गतं प्रकरणमपि पञ्जीकृतम् अस्ति। एतेषामेव आरोपाणाम् आधारेण ईडी-संस्थया धनशोधन-दृष्ट्या अन्वेषणम् आरब्धम्।
अन्वेषणकाले बेहाला-क्षेत्रस्य व्यवसायिनः जय-कामदारस्य नाम प्रकाशम् आगतम्, यं ईडी-संस्थया गृहीतम्। अस्मिन्नेव प्रकरणे केन्द्रीय-अभिकरणेन पूर्व-आरक्षक-अधिकारी शान्तनु-सिन्हा-विश्वासस्य फर्न-रोड-स्थिते निवासे निरीक्षण-अभियानमपि सञ्चालितम्।
निरीक्षण-अभियानस्य परदिने ईडी-संस्थया सोना-पप्पू-सम्बद्धे प्रकरणे शान्तनु-सिन्हा-विश्वासं तस्य पुत्रौ सायन्तनं मनीषं च सीजीओ-कॉम्प्लेक्स-स्थिते कार्यालये उपस्थातुं समाहूतम्। किन्तु तस्मिन् दिने तेषु कोऽपि अभिकरणस्य पुरतः उपस्थितः नाभवत्।
एतस्मात् पूर्वम् अप्रैल-मासे ईडी-संस्थया कालीघाट-आरक्षक-स्थानकस्य पूर्व-स्थान-प्रभारिणं शान्तनु-सिन्हा-विश्वासं कथित-सिकता-चौर्य-प्रकरणस्य अन्वेषणार्थमपि समाहूतम्। बहुवारं समनस्य अवहेलनानन्तरं तस्य देशत्याग-निवारणार्थं निरीक्षण-परिपत्रम् अपि निर्गतम्। पश्चात् सः ईडी-कार्यालयम् उपस्थितः, यत्र पृच्छानन्तरं सः गृहीतः।
सोना-पप्पू अपि दीर्घकालं यावत् अभिकरणस्य गृहीत-परिधेः बहिः आसीत्। गतमासे सः अकस्मात् स्वपत्न्या सह सीजीओ-कॉम्प्लेक्स इत्यत्र उपस्थितः। दीर्घ-पृच्छानन्तरम् ईडी-संस्थया तमपि गृहीतम्। सम्प्रति शान्तनु-सिन्हा-विश्वासः, जय-कामदारः तथा सोना-पप्पू न्यायिक-निग्रहे सन्ति।
ईडी-अन्वेषणे सोना-पप्पू-गृहे तलाशी-अभियानकाले ७ मिलीमीटर-परिमाणस्य एका भुषूण्डि: अपि प्राप्ता इति उल्लिखितम् अस्ति। अभिकरणस्य कथनानुसारम् एषा भुषूण्डि: गत-जनवरी-मासे सोना-पप्पू द्वारा स्वपत्न्याः नाम्ना क्रीता आसीत्। अन्वेषण-अभिकरणस्य कथनम् अस्ति यत् एतत् शस्त्रं जय-कामदारस्य संस्थया विक्रीतम्।
अभिकरणेन एतदपि आरोपितं यत् सोना-पप्पू-पत्न्याः नाम्ना पञ्जीकृतया एकया संस्थया जय-कामदारस्य मध्ये वित्तीय-व्यवहारः अभवत्। अन्वेषणे सोना-पप्पू-सम्बद्धस्य प्रायः १.५ कोटि-रूप्यकाणां वित्तीय-व्यवहारस्य अपि उल्लेखः कृतः। तथापि जय-कामदारस्य कथनम् अस्ति यत् तेन सोना-पप्पू तथा तस्य पत्नी-स्वामित्वयुक्त-संस्थातः व्यापारिक-आवश्यकतार्थं ऋणं गृहीतम्।
सोना-पप्पू-पत्न्या पूर्वम् उक्तं यत् भुषूण्डि-विषये तस्याः कापि सूचना नासीत्। इदानीम् ईडी-संस्था परिवार-सदस्येभ्यः तथा आरक्षक-अधिकारिभ्यः पृच्छां कृत्वा कथित-धनशोधन-जालस्य तथा आरोपितानां पारस्परिक-सम्पर्काणाम् अन्वेषणं अग्रे नेतुं सज्जा अस्ति।
Hindusthan Samachar / Divya Ranjan