अर्जुन राम मेघवाल गुरुवासरे वितरिष्यते राष्ट्रिय युवा संसद प्रतियोगितायाः पुरस्कारः
नव दिल्ली, 24 जूनमासः (हि.स.)। केन्द्रीयविद्यालयानां कृते आयोजितायाः ३६तमायाः राष्ट्रिययुवासंसत्प्रतियोगितायाः (२०२५–२६) पुरस्कारवितरणसमारोहः गुरुवासरे, २५ जूनदिनाङ्के, संसद्भवनपरिसरे स्थिते जीएमसी बालयोगी सभागारे आयोजितः भविष्यति। संसदीयकार्यमन्
केंद्रीय मंत्री अर्जुन राम मेघवाल (फाइल फोटो)


नव दिल्ली, 24 जूनमासः (हि.स.)।

केन्द्रीयविद्यालयानां कृते आयोजितायाः ३६तमायाः राष्ट्रिययुवासंसत्प्रतियोगितायाः (२०२५–२६) पुरस्कारवितरणसमारोहः गुरुवासरे, २५ जूनदिनाङ्के, संसद्भवनपरिसरे स्थिते जीएमसी बालयोगी सभागारे आयोजितः भविष्यति। संसदीयकार्यमन्त्रालयस्य राज्यमन्त्री अर्जुनराममेघवालः समारोहस्य अध्यक्षतां करिष्यति तथा विजेतृविद्यार्थिभ्यः विद्यालयेभ्यश्च पुरस्कारान् प्रदास्यति।

संसदीयकार्यमन्त्रालयेन बुधवासरे उक्तं यत् समारोहे राष्ट्रियस्तरे प्रथमस्थानं प्राप्तवन्तः देहल्याः प्रेसिडेण्टस्टेटस्थितस्य डॉ राजेन्द्रप्रसादकेन्द्रीयविद्यालयस्य विद्यार्थिनः स्वीयायाः युवासंसदः पुनः प्रदर्शनं करिष्यन्ति।

संसदीयकार्यमन्त्रालयं गतानां अष्टात्रिंशद्वर्षाणां कालात् केन्द्रीयविद्यालयेषु युवासंसत्प्रतियोगितायाः आयोजनं करोति। वर्षे २०२५–२६ आयोजितायां ३६तमायां प्रतियोगितायां देशस्य विभिन्नेषु स्थानेषु स्थिताः केन्द्रीयविद्यालयसङ्गठनस्य २५ क्षेत्रेषु २०० विद्यालयाः सहभागित्वं कृतवन्तः।

अस्याः योजनायाः उद्देश्यं विद्यार्थिषु आत्मानुशासनस्य, विभिन्नविचाराणां प्रति सहिष्णुतायाः, लोकतान्त्रिकमूल्यानां तथा संसदीयपरम्पराणां प्रति सम्यग्बोधस्य विकासः अस्ति। अस्याः माध्यमेन छात्राणां संसदः कार्यप्रणाल्याः, वादविवादकौशलस्य, नेतृत्वक्षमतायाः तथा प्रभाविवक्तृत्वकलायाः अपि प्रशिक्षणं भवति।

राष्ट्रियस्तरे प्रथमस्थानं प्राप्तवत् डॉ राजेन्द्रप्रसादकेन्द्रीयविद्यालयं प्रतिष्ठितां सरदारवल्लभभाईपटेल रनिङ् पार्लियामेण्टरी शील्डं ट्रॉफीं च प्राप्स्यति।

प्रतियोगितायाः क्षेत्रीयस्तरस्य विजेतृविद्यालयानामपि सम्माननं भविष्यति। एतेषु केन्द्रीयविद्यालयः मथुराकैण्ट् (पश्चिमक्षेत्रम्), पीएमश्री केन्द्रीयविद्यालयः क्रमाङ्क १ मदुरै (दक्षिणक्षेत्रम्), पीएमश्री केन्द्रीयविद्यालयः क्रमाङ्क २ शिवाजीनगर भोपाल (मध्यक्षेत्रम्) तथा पीएमश्री केन्द्रीयविद्यालयः वायुसेनास्थानम् बोरझार गुवाहाटी (पूर्वक्षेत्रम्) समाविष्टाः सन्ति।

एतदतिरिक्तं जम्मू, चण्डीगढ़, गुरुग्राम, देहरादून, अहमदाबाद, जयपुर, मुम्बई, राञ्ची, जबलपुर, एर्नाकुलम्, हैदराबाद, बेङ्गलूरु, लखनऊ, पटना, रायपुर, वाराणसी, तिनसुकिया, कोलकाता, सिलचर तथा भुवनेश्वर क्षेत्राणां २० क्षेत्रीयविजेतृकेन्द्रीयविद्यालयेभ्यः अपि ट्रॉफयः प्रदास्यन्ते।

समारोहे विभिन्नक्षेत्रेभ्यः आगताः छात्राः छात्र्यः, शिक्षकाः, केन्द्रीयविद्यालयसङ्गठनस्य अधिकारिणः तथा संसदीयकार्यमन्त्रालयस्य वरिष्ठाधिकारिणः उपस्थिताः भविष्यन्ति।

------------

Hindusthan Samachar / Dheeraj Maithani