Enter your Email Address to subscribe to our newsletters

उदयपुरम्, जूनमासस्य २४ दिनाङ्कः (हि.स.)। राज्यसर्वकारस्य वरिष्ठनागरिक-तीर्थयात्रा-योजना २०२६–२७ अन्तर्गतं उदयपुर-जनपदस्य पात्र-आवेदकानां चयनार्थं बुधवासरे जनपदसङ्ग्राहक-कार्यालय-परिसरे स्थिते सूचना-प्रौद्योगिकी-कार्यालये अन्तर्जाल-लॉटरी-प्रक्रिया सम्पन्ना। अपर-जनपदसङ्ग्राहकः दीपेन्द्रसिंह-राठौडः पारदर्शी-प्रक्रियया लॉटरीम् उद्घाटितवान्।
लॉटरी-प्रक्रियायां मुख्य-चिकित्सा-स्वास्थ्य-अधिकारी, जनपद-परिषदः मुख्य-कार्यकारी-अधिकारी, देवस्थान-विभागस्य सहायक-आयुक्तः तथा चयन-समितेः अन्ये सदस्याः उपस्थिताः आसन्। अन्तर्जाल-लॉटरी-प्रक्रियया उदयपुर-जनपदस्य १९८९ वरिष्ठनागरिकाणां चयनं कृतम्। तेषु १७७२ यात्रिण: रेलयान-यात्रार्थं तथा २१७ यात्रिण: वायुयान-यात्रार्थं चयनिताः। एतेन सह रेलयान-वायुयान-यात्रयोः उभयोरपि कृते १९८९ यात्रिणां प्रतीक्षासूची अपि प्रकाशिता। मुख्यसूच्यां चयनितः कश्चिद् यात्री यदि यात्रां न करोति, तर्हि प्रतीक्षासूच्याः क्रमेन अन्ये पात्र-आवेदकाः अवसरं प्राप्स्यन्ति।
देवस्थान-विभागस्य उदयपुरस्य सहायक-आयुक्तः जतिन-गान्धी अवदत् यत् चयनितेभ्यः वरिष्ठनागरिकेभ्यः लघु-दूरभाष-सन्देशेन सूचना प्रेषिता भविष्यति। चयनितानां तथा प्रतीक्षासूच्याः विवरणं देवस्थान-विभागस्य जालपुटेऽपि उपलब्धं भविष्यति, येन आवेदकाः स्वनाम्नः सूचनां प्राप्तुं शक्नुवन्ति।
सः अपि अवदत् यत् राज्यसर्वकारस्य बजट्-घोषणानुसारं २०२६–२७ वित्तीयवर्षे राज्यस्य ५६ सहस्रं वरिष्ठनागरिका: निःशुल्क-तीर्थयात्रायाः लाभं प्राप्स्यन्ति। योजनायाः अन्तर्गतं ५० सहस्रं यात्रिण: रेलमार्गेण देशस्य प्रमुखेषु १५ तीर्थस्थलेषु कस्यचित् एकस्य तीर्थस्थलस्य यात्रां करिष्यन्ति, तथा ६ सहस्रं वरिष्ठनागरिका: वायुयानमार्गेण नेपालदेशस्थितस्य पशुपतिनाथ-मन्दिरस्य दर्शनं करिष्यन्ति।
योजनायाः अन्तर्गतं यात्रा, आवासः, भोजनम् तथा अन्याः आवश्यक-व्यवस्थाः राज्यसर्वकारेण निःशुल्कतया प्रदास्यन्ते। उदयपुर-सम्भागात् प्रस्थास्यमाना प्रथमा तीर्थयात्रा-रेलयान-सेवा अगस्त-मासे अथवा सेप्टेम्बर-मासे सञ्चालितुं सम्भाव्यते। यात्रायाः तिथिः तथा अन्ये आवश्यक-निर्देशाः चयनित-यात्रिभ्यः पृथक् सूचिताः भविष्यन्ति।
Hindusthan Samachar / Divya Ranjan