Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 24 जूनमासः (हि.स.)।
भारतीयजनतापक्षस्य राष्ट्रियाध्यक्षः नितिननवीनः बुधवासरे अत्र नियुक्तानां द्व्यशीतिदेशानां राजनयिकेभ्यः उपहाररूपेण भारतीयाम्रफलानि प्रेषितवान्। भाजपायाः विदेशकार्यमण्डलस्य प्रभारी डॉ विजयचौथाईवाले सामाजिकमाध्यममञ्चे एक्स इत्यत्र अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदिना मनकीबात कार्यक्रमे आम्रफलस्य महत्त्वविषये व्यक्तविचारैः प्रेरितः पक्षाध्यक्षः नितिननवीनः नूतनदिल्लीस्थेभ्यः द्व्यशीतिदेशानां मिशनप्रमुखेभ्यः भारतीयाम्रफलानि प्रेषितवान्। मिशनप्रमुखेभ्यः प्रेषिते उपहारे आम्रफलस्य चतस्रः प्रमुखाः जातयः केसर दशहरी बंगनपल्ली लंगडा च समाविष्टाः आसन्। तेन सह वैयक्तिकः सन्देशोऽपि प्रेषितः। सः अवदत् यत् प्रत्येकम् आम्रफलं स्वस्वप्रदेशस्य विशिष्टपरिचयं स्वादं संस्कृतिं च प्रतिनिधित्वं करोति। एषा पहल भारतस्य वसुधैवकुटुम्बकम् इति भावनां प्रतिबिम्बयति तथा च विश्वेन सह भारतीयसंस्कृतेः सौहार्दस्य माधुर्यस्य च सहकारीकरणस्य एकः प्रयत्नः अस्ति।
-----------
Hindusthan Samachar / Dheeraj Maithani