Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 24 जूनमासः (हि.स.)।
तीर्थनगरी हरिद्वारं स्वच्छं सुन्दरं सुव्यवस्थितं च कर्तुम् उद्दिश्य जनपदप्रशासनेन हरिकीपौडीक्षेत्रस्य शिवघाटे, सुभाषघाटे, मालवीयघाटे, विष्णुघाटे तथा अन्येषु विविधघाटेषु विशेषस्वच्छताभियानं सञ्चालितम्। एतदभियानं जिलाधिकारी मयूरदीक्षितस्य निर्देशनाधीनं सम्पन्नम्।
स्वच्छताभियाने आपदाप्रबन्धनविभागस्य, भारतीयस्काउटगाइडसङ्घस्य, नगरनिगमस्य, विविधसामाजिकसंस्थानां प्रतिनिधीनां च सह राष्ट्रीयआपदाप्रतिक्रियाबलस्य तथा राज्यआपदाप्रतिक्रियाबलस्य जवानाः सक्रियतया सहभागी अभवन्। अस्मिन् अवसरे घाटेषु तेषां समीपवर्तिक्षेत्रेषु च स्वच्छताकार्यं सम्पन्नम्। नगरनिगमस्य दलं अतिक्रमणनिवारणकार्यवाहिमपि अकरोत्। तदनन्तरं जनाः स्वच्छतायाः विषये जागरूकाः कृताः।
जनपदआपदाप्रबन्धनाधिकारिणी मीरा रावत अवदत् यत् जिलाधिकारीस्य निर्देशानुसारं तीर्थनगर्यां निरन्तरं स्वच्छताभियानं सञ्चाल्यते, येन हरिद्वारम् आगच्छद्भ्यः श्रद्धालुभ्यः पर्यटकेभ्यश्च स्वच्छं श्रेष्ठं च वातावरणं प्रदातुं शक्येत।
प्रशासनेन तीर्थयात्रिभ्यः, पर्यटकेभ्यः, स्थानीयनागरिकेभ्यः, व्यापारिकप्रतिष्ठानेभ्यश्च अपीलं कृतं यत् ते गङ्गाघाटेषु, सार्वजनिकस्थलेषु, मुक्तप्रदेशेषु च कूर्परित्यागं न कुर्वन्तु तथा नगरनिगमेन स्थापितानां कूर्पपात्राणामेव उपयोगं कुर्वन्तु, येन मातुः गङ्गायाः निर्मलता स्वच्छता च अक्षुण्णा तिष्ठेत्।
अभियाने नगरनिगमस्य स्वच्छताब्राण्डदूता सोनियासिंह, स्वच्छतानिरीक्षकः संजयशर्मा, गङ्गासभायाः सदस्याः, आदर्शयुवासमितेः प्रतिनिधयः, आस्थासेवासंस्थानस्य सदस्याः, राष्ट्रीयआपदाप्रतिक्रियाबलस्य, राज्यआपदाप्रतिक्रियाबलस्य जवानाः, नगरनिगमस्य अधिकारीकर्मचारिणः तथा विविधस्वयंसेवीसंस्थानां प्रतिनिधयः उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani