Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 25 जूनमासः (हि.स.)।
राज्यसभायाः सभापतिना सी. पी. राधाकृष्णनेन गुरुवासरे राज्यसभासदने दश नवनिर्वाचितान् पुनर्निर्वाचितान् च सदस्यान् पदस्य गोपनीयतायाश्च शपथं कारिता।
शपथग्रहणं कृतवन्तः सदस्याः प्रवीण चक्रवर्ती, देबाशीष सामंतराय, सना सतीश बाबू, विजय चिंतकायाला, भाष्यम रामकृष्ण, लिंगामनेनी रमेश, राजेश परमानन्द शुक्लः, बैद्यनाथ रामः, परिमल नथवानी तथा ताई टागक आसन्। तेषु पञ्च सदस्याः हिन्दीभाषया, एकः सदस्यः आङ्ग्लभाषया, एकः सदस्यः तमिळभाषया तथा त्रयः सदस्याः तेलुगुभाषया शपथं गृहीतवन्तः।
शपथग्रहणं कृतवत्सु सदस्येषु चत्वारः सदस्याः आन्ध्रप्रदेशात्, द्वौ सदस्यौ झारखण्डात् तथा एकैकः सदस्यः तमिळनाडुतः, गुजरातात्, अरुणाचलप्रदेशात्, ओडिशातः च सन्ति।
अस्मिन् अवसरे विधिन्यायराज्यमन्त्री अर्जुनराम मेघवालः, राज्यसभायाः महासचिवः पी. सी. मोदी, सदनस्य अन्ये सदस्याः, गणमान्यजनाः तथा राज्यसभा सचिवालयस्य वरिष्ठाधिकारिणः उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani