अंबुबासी मेलापकस्य अद्य भविष्यति समापनं, श्वः प्रातःउद्घटिष्यति मां कामाख्या मंदिरस्य कपाटम्
गुवाहाटी, 25 जूनमासः (हि.स.)। असमराज्यस्य गुवाहाटीनगरे नीलाचलपर्वते स्थिते पवित्रे शक्तिपीठे मातुः कामाख्याधाम्नि आयोजितस्य विश्वप्रसिद्धस्य अम्बुबासीमेलस्य अद्य रात्रौ निवृत्त्यनुष्ठानेन समापनं भविष्यति। वार्षिकधार्मिकपरम्परानुसारं द्वाविंशतितम
Ambubachi Mela at Kamakhya Temple..


गुवाहाटी, 25 जूनमासः (हि.स.)।

असमराज्यस्य गुवाहाटीनगरे नीलाचलपर्वते स्थिते पवित्रे शक्तिपीठे मातुः कामाख्याधाम्नि आयोजितस्य विश्वप्रसिद्धस्य अम्बुबासीमेलस्य अद्य रात्रौ निवृत्त्यनुष्ठानेन समापनं भविष्यति। वार्षिकधार्मिकपरम्परानुसारं द्वाविंशतितमात् जूनमासदिनात् निमीलितानि मन्दिरस्य कपाटानि शुक्रवासरे प्रातःकाले श्रद्धालुभ्यः पुनः उद्घाटितानि भविष्यन्ति।

चतुर्दिनात्मकस्य अस्य महापर्वणः अवधौ देशविदेशेभ्यः आगतैः साधुभिः सन्तैः तान्त्रिकैः तपस्विभिः लक्षशः श्रद्धालुभिश्च सम्पूर्णः नीलाचलप्रदेशः भक्त्या आध्यात्मिकशक्त्या च परिपूर्णः अभवत्। मेलायाः अवधौ जपः तपः साधना तन्त्रमन्त्रसाधना विविधाः धार्मिकानुष्ठानाश्च निरन्तरम् आयोजिताः येन सम्पूर्णप्रदेशे अद्भुतम् आध्यात्मिकवातावरणम् अभवत्। मातुः शक्तेः आराधनायै तान्त्रिकपरम्पराभ्यश्च प्रसिद्धः अयं मेलः देशस्य महत्त्वपूर्णेषु आध्यात्मिकसमागमेषु अन्यतमः मन्यते।

मातुः कामाख्यायाः दर्शनार्थं श्रद्धालुषु महान् उत्साहः दृश्यते। मन्दिरस्य कपाटोद्घाटनानन्तरं भक्तेभ्यः देव्याः प्रथमदर्शनस्य अवसरः भविष्यति। मेलायाः सफलशान्तिपूर्णसमापनार्थं प्रशासनस्य मन्दिरप्रबन्धनसमितेः च पक्षतः सुरक्षा यातायातव्यवस्था जनसमूहनियन्त्रणं च सम्बन्धिषु व्यापकाः व्यवस्थाः कृताः सन्ति।

कामरूप मेट्रो जनपदप्रशासनेन अस्मिन् वर्षे मेलापके प्रायः अष्टलक्षसंख्याकाः श्रद्धालवः सहभागित्वं करिष्यन्ति इति अनुमानं व्यक्तीकृतम्। कामाख्यामन्दिरपरिचालनसमितिः मन्दिरस्य कपाटोद्घाटनार्थं आवश्यकसज्जासु संलग्ना अस्ति।

-------------

Hindusthan Samachar / Dheeraj Maithani