बाङ्ग्लादेशवासिनां कृते भारतं पुनः पर्यटन-वीजासुविधां प्रारभ्स्यते
ढाका, २५ जूनमास:। बाङ्ग्लादेशे नवनियुक्तः भारतीय-उच्चायुक्तः दिनेश-त्रिवेदी घोषितवान् यत् भारतं प्रायः द्विवर्षीयावकाशानन्तरं जूनमासस्य २८ दिनाङ्कात् बाङ्ग्लादेशवासिनां कृते पर्यटन-वीजासुविधां पुनः प्रारप्स्यति। उच्चायुक्तः दिनेशत्रिवेदी अत्र बङ्ग
बांग्लादेश में भारत के उच्चायुक्त दिनेश त्रिवेदी ने आज मोहम्मद शहाबुद्दीन को अपना परिचय पत्र प्रस्तुत किया।


ढाका, २५ जूनमास:। बाङ्ग्लादेशे नवनियुक्तः भारतीय-उच्चायुक्तः दिनेश-त्रिवेदी घोषितवान् यत् भारतं प्रायः द्विवर्षीयावकाशानन्तरं जूनमासस्य २८ दिनाङ्कात् बाङ्ग्लादेशवासिनां कृते पर्यटन-वीजासुविधां पुनः प्रारप्स्यति।

उच्चायुक्तः दिनेशत्रिवेदी अत्र बङ्गभवने बाङ्ग्लादेशस्य राष्ट्रपतये मोहम्मद-शहाबुद्दीनाय गुरुवासरे स्वीयं परिचयपत्रं समर्पितवान्। ततः सः जमुना-फ्यूचरपार्क-स्थितं भारतीय-वीजा-आवेदन-केन्द्रम् अगच्छत् तथा प्रचलमानानां वीजा-प्रक्रियाणां समीक्षणम् अकरोत्। तत्र सः अवदत् यत् जमुनाफ्यूचरपार्क-स्थितम् एतत् भारतीय-वीजा-आवेदन-केन्द्रं भारतस्य बृहत्तमेषु वीजा-सहायता-केन्द्रेषु अन्यतमम् अस्ति तथा भारत-बाङ्ग्लादेशयोः परस्पर-आदानप्रदानस्य महत्त्वपूर्णं केन्द्रमपि अस्ति। सः सूचितवान् यत् आगामि-रविवासरात् बाङ्ग्ला-देशवासिनां कृते पर्यटन-वीजासुविधा पुनः प्रवर्तिष्यते।

वर्षे २०२४ प्रधानमन्त्री शेखहसीना-सत्ताच्युतेः अनन्तरं जातानाम् अप्रिय-घटनानां कारणात् बाङ्ग्लादेशवासिनां कृते पर्यटन-वीजासुविधा स्थगिता आसीत्।

एतस्मिन्नन्तरे बाङ्ग्लादेशे भारतस्य उच्चायुक्तत्वेन नियुक्ताय दिनेशत्रिवेदिने शासकीय-समारोहेषु केन्द्रीय-मन्त्रीसमं नियम-मानं प्रदत्तम् अस्ति। बाङ्ग्लादेश-सर्वकारेण औपचारिक-कार्यक्रमेषु तस्मै मन्त्रिसमः नियम: प्रदेय: इति घोषितम्। गृहमन्त्रालयस्य लोकाचार-विभागेन बुधवासरे निर्गते शासनादेशे उक्तं यत् ‘टेबल ऑफ प्रेसिडेन्स’ इत्यस्मिन् तस्मै व्यक्तिगत-रूपेण एषः समान-मानं प्रदत्तम् अस्ति। तथापि एतत् केवलम् औपचारिक-कार्यक्रमेषु एव प्रवर्तते इति अपि स्पष्टीकृतम्।

उल्लेखनीयम् अस्ति यत् भारतीय-जनतापक्षस्य वरिष्ठनेता दिनेशत्रिवेदी पूर्वं केन्द्रीयमन्त्री आसीत्। उच्चायुक्तस्य पदं मन्त्रिपदात् अधस्तनं भवति। अतः विदेशमन्त्रिणः यात्रासु औपचारिक-समारोहेषु तस्य राजनैतिक-प्रतिष्ठायाः अनुरूपः नियम: भवेदिति दृष्ट्या एषः निर्णयः कृतः। श्रीत्रिवेदी बाङ्ग्ला-भाषायां निपुणः अस्ति। सः गतस्य २७ एप्रिल दिनाङ्के बाङ्ग्लादेशे भारतस्य उच्चायुक्तत्वेन नियुक्तः आसीत्। अर्वाचीनेषु वर्षेषु कस्यचित् राजनेतुः एषा प्रथमा राजनैतिक-नियुक्तिः अस्ति।

/ अंशु गुप्ता