Enter your Email Address to subscribe to our newsletters

जोधपुरम्, जूनमासस्य २५ दिनाङ्कः (हि.स.)। पञ्चायतसमितिक्षेत्रस्य चुतरपुरा-ग्रामपञ्चायते आयोजिते ग्रामीणसेवाशिविरे विभिन्नविभागैः सामान्यजनानां कृते राज्यसर्वकारस्य जनकल्याणकारी-योजनानां लाभः प्रदत्तः।
शिविरे उपस्थितस्य भोजारामस्य प्रकरणस्य परीक्षणं कृत्वा सामाजिक-न्याय-अधिकारिता-विभागेन सामाजिक-सुरक्षापेन्शनयोजनायाः अन्तर्गतं तस्य नवीनम् आवेदनं कारितम्। आवेदनस्य स्वीकृतेः अनन्तरं स प्रतिमासं सामाजिकसुरक्षापेन्शनस्य लाभं प्राप्स्यति। अस्मिन्नवसरे भोजारामः प्रधानमन्त्रिणे, मुख्यमन्त्रिणे, राज्यसर्वकाराय प्रशासनाय च कृतज्ञताम् अव्यक्तयत्।
ग्रामीणसेवाशिविरस्य अवसरे नाहरों-की-ढाणी-निवासी कृषकः कुम्भारामः स्वस्य सफलताकथां निवेदयन् अवदत् यत् कृषि-विभागस्य योजनानाम् अन्तर्गतं तस्मै प्रशिक्षणं, प्राविधिकमार्गदर्शनम् अनुदानं च प्राप्तम्। विभागस्य सहयोगेन तेन जीवामृतम्, बीजामृतम्, घनजीवामृतम् तथा प्राकृतिक-कीटप्रबन्धन-प्रविधीनां प्रयोगः प्रारब्धः। तस्य परिणामस्वरूपम् उर्वरक-कीटनाशकयोः व्ययः प्रायः पञ्चाशत्प्रतिशतम् अल्पीकृतः, सस्यानां गुणवत्तायां सुधारः अभवत् तथा भूमेः उर्वरता अपि वर्धिता। अनेन तस्य आये उल्लेखनीया वृद्धिरपि अभवत्।
तथैव ग्रामीणसेवाशिविरस्य अवसरे आयुर्वेद-विभागेन चुतरपुरा-ग्राम-पञ्चायतस्य ग्रामवासिभ्यः, विशेषतः वृद्धमहिलाभ्यः, स्वास्थ्यसेवाः प्रदत्ताः। दीर्घकालात् उच्चरक्तचापेन, मधुमेहेन, सन्धिवेदनया, त्वग्रोगैः अन्यैः स्वास्थ्य-समस्याभिश्च पीडितानां ग्रामवासिनां परीक्षणं कृत्वा तेभ्यः आवश्यकपरामर्शः आयुर्वेदिकौषधानां निःशुल्कवितरणं च कृतम्।
पञ्चायतसमितेः चामू-क्षेत्रस्य लौड़ता-अचलावता-ग्रामपञ्चायतस्य प्रगतिशीलः कृषकः जसारामः गङ्गारामपुत्रः जाटः कृषि-विभागस्य कृषि-यन्त्रयोजनायाः लाभं प्राप्य कृषिक्षेत्रे नूतनां सफलताम् अवाप्तवान्। तेन उक्तं यत् योजनायाः अन्तर्गतं तेन आवेदनं कृतम् आसीत् तथा वित्तीयवर्षे २०२५–२६ प्रशासनिकस्वीकृतेः अनन्तरं क्षेत्रकर्षणार्थं रोटावेटर-यन्त्रम् अक्रीणात्।
कृषि-विभागात् रोटावेटर-यन्त्रस्य क्रयणे चत्वारिंशत्प्रतिशत-अनुदानराशेः प्राप्य तस्मै महती आर्थिकसाहाय्यता प्राप्ता। ग्रामीणसेवाशिविरस्य अवसरे परिवहन-विभागेन वरिष्ठनागरिकाय भीयारामाय मङ्गलारामपुत्राय लौड़ता-अचलावता-निवासिने राजस्थान-रोडवेज-निःशुल्क-यात्रार्थं वरिष्ठनागरिक-पत्रिका निर्माय प्रदत्ता।
Hindusthan Samachar / Divya Ranjan