Enter your Email Address to subscribe to our newsletters

मुख्यमंत्री सायः यूपीएससी प्रारंभिक परीक्षायां सफल ट्राइबल यूथ हॉस्टल इत्यस्य विद्यार्थिभिस्सह विहितं मेलनम्
नवदिल्ली / रायपुरम् 25 जूनमासः (हि.स.)।
छत्तीसगढराज्यस्य मुख्यमन्त्री विष्णुदेवसायः अद्य गुरुवासरे नवदेहल्यां स्थिते छत्तीसगढसदने सङ्घलोकसेवाआयोगस्य प्रारम्भिकपरीक्षायां सफलतां प्राप्तैः द्वारकास्थितस्य ट्राइबलयूथहॉस्टलस्य विद्यार्थिभिः सह आत्मीयसमागमं कृत्वा तेषाम् उत्साहवर्धनम् अकरोत्। अस्मिन् अवसरे तेन विद्यार्थिभ्यः मुख्यपरीक्षायै शुभकामनाः प्रदत्ताः तथा उक्तं यत् एषा उपलब्धिः केवलं व्यक्तिगतसफलता नास्ति अपितु छत्तीसगढस्य परिश्रमीणां परिवाराणां स्वप्नानां संघर्षस्य च सम्मानः अपि अस्ति।
मुख्यमन्त्री सायः अवदत् यत् एतेषां विद्यार्थिनां सफलता अस्य सशक्तं प्रमाणम् अस्ति यत् प्रतिभा कदापि आर्थिकसंसाधनानां पारिवारिकपृष्ठभूमेः वा अधीना न भवति। कस्यचित् पिता राजमिस्त्री अस्ति, कश्चित् कृषकपरिवारात् आगतः, अपरः शिक्षकस्य पुत्रः अस्ति, तथापि एते सर्वे स्वपरिश्रमेण अनुशासनेन दृढसङ्कल्पेन च देशस्य सर्वाधिकप्रतिष्ठितायाः प्रतियोगितापरीक्षायाः प्रथमचरणे सफलतां प्राप्तवन्तः। एतत् समग्रराज्यस्य विशेषतः युवानां कृते प्रेरणादायकम् उदाहरणम् अस्ति।
मुख्यमन्त्री विद्यार्थिभिः सह तेषां परीक्षातयारी अध्ययनपद्धतिः संघर्षः भविष्ययोजनाः च विषये विस्तरेण चर्चाम् अकरोत्। विद्यार्थिनः ट्राइबलयूथहॉस्टले उपलब्धस्य अध्ययनवातावरणस्य मार्गदर्शनस्य सुविधानां च स्वानुभवान् न्यवेदयन् तथा उक्तवन्तः यत् राज्यसर्वकारेण प्रदत्तेन अनुकूलवातावरणेन तेषां महत्सु लक्ष्येषु निर्धारणे तानि प्राप्तुं च आत्मविश्वासः वर्धितः।
मुख्यमन्त्री विद्यार्थिभ्यः अवदत् यत् प्रारम्भिकपरीक्षायाः सफलता महत्त्वपूर्णः सोपानः अस्ति किन्तु वास्तविकं लक्ष्यं मुख्यपरीक्षायां ततः साक्षात्कारपरीक्षायां च उत्कृष्टप्रदर्शनम् एव अस्ति। तेन विद्यार्थिनः पूर्णनिष्ठया अनुशासनेन समयप्रबन्धनेन सकारात्मकचिन्तनेन च परीक्षायाः सिद्धतां कर्तुं परामर्शः प्रदत्तः। सः अवदत् यत् कठिनपरिश्रमस्य कश्चन विकल्पः नास्ति तथा निरन्तरप्रयत्नः एव सफलतायाः महान् आधारः अस्ति।
मुख्यमन्त्री अवदत् यत् प्रशासनिकसेवाः केवलं प्रतिष्ठितः व्यवसायः न सन्ति अपितु समाजस्य राष्ट्रस्य च सेवायाः प्रभावी माध्यमम् अस्ति। तेन विद्यार्थिभ्यः अपेक्षा कृता यत् ते भविष्ये प्रशासनिकदायित्वनिर्वहणे संवेदनशीलतां पारदर्शितां जनसेवाभावं च सर्वोच्चप्राथमिकतया स्वीकरिष्यन्ति तथा शासनस्य योजनानां लाभं समाजस्य अन्तिमव्यक्तेः पर्यन्तं प्रापयितुं महत्त्वपूर्णां भूमिकां निर्वहिष्यन्ति।
मुख्यमन्त्री अवदत् यत् राज्यसर्वकारः युवभ्यः गुणवत्तायुक्तां शिक्षां प्रतियोगितापरीक्षाणां सिद्धतां श्रेष्ठान् अवसरान् च प्रदातुं निरन्तरं कार्यं करोति। विशेषतः दूरस्थेषु जनजातीयप्रदेशेषु प्रतिभाशालिनः युवानः अग्रे नेतुं बहवः उपक्रमाः क्रियमाणाः सन्ति येन संसाधनाभावात् कापि प्रतिभा कदापि पश्चात् न तिष्ठेत्।
तेन उक्तं यत् द्वारकास्थितः ट्राइबलयूथहॉस्टलः अस्यैव चिन्तनस्य परिणामः अस्ति यत्र राज्यस्य अनुसूचितजनजातेः अनुसूचितजातेः अन्यपश्चाद्वर्गस्य च प्रतिभाशालिनः विद्यार्थिनः राष्ट्रियस्तरस्य प्रतियोगितापरीक्षाणां सिद्धतां कुर्वन्ति। अत्र उपलब्धं शैक्षणिकवातावरणं मार्गदर्शनं आवश्यकसुविधाश्च सकारात्मकं परिणामं ददति। अधुना सङ्घलोकसेवाआयोगस्य इव प्रतिष्ठितायां परीक्षायां विद्यार्थिनां निरन्तरवर्धमानसफलतारूपेण तस्य फलम् दृश्यते।
मुख्यमन्त्री सायः अवदत् यत् समाजस्य वञ्चितेभ्यः प्रतिभाशालिभ्यः युवभ्यः श्रेष्ठान् अवसरान् प्रदातुं नवदेहल्यां स्थितस्य ट्राइबलयूथहॉस्टलस्य क्षमता उल्लेखनीयरूपेण वर्धिता अस्ति तथा आसनानां संख्या पञ्चाशत् तः द्विशतपर्यन्तं वर्धिता अस्ति।
अनेन निर्णयेन राज्यस्य दूरस्थानां वनप्रदेशानां जनजातीयक्षेत्राणां ग्रामीणप्रदेशानां च विद्यार्थिभ्यः देशस्य राजधानीनगरे निवसित्वा सङ्घलोकसेवाआयोगस्य अन्यासां प्रतिष्ठितप्रतियोगितापरीक्षाणां च सिद्धतां कर्तुं श्रेष्ठः अवसरः लभ्यते।
अस्मिन् अवसरे उपमुख्यमन्त्री विजयशर्मा स्वास्थ्यमन्त्री श्यामबिहारीजायसवालः च उपस्थितौ आस्ताम्। उभाभ्याम् मन्त्रिभ्याम् विद्यार्थिभ्यः प्रारम्भिकपरीक्षायां सफलतायै अभिनन्दनं प्रदत्तं मुख्यपरीक्षायै शुभकामनाश्च दत्ताः। ताभ्यां विद्यार्थिनः पूर्णसमर्पणेन आत्मविश्वासेन च स्वलक्ष्यस्य दिशि अग्रे गन्तुं प्रेरिताः।
---------------
Hindusthan Samachar / Dheeraj Maithani