जशपुरनगम् - आरक्षकविभागेन एकस्मिन्नेव दिने ७६६ ग्रामेषु ‘यातायातजनचौपालाः’ आयोज्य शिरस्त्राणजागरूकतायाः विश्वाभिलेखः स्थापितः
जशपुरनगरम्, २५ जूनमासः (हि.स.)। मार्गसुरक्षायाः जीवनरक्षणस्य च क्षेत्रे अभूतपूर्वम् उदाहरणं स्थापयन्ती जशपुर-आरक्षकः वैश्विकपटलस्य उपरि स्वनाम स्वर्णाक्षरैः लिखितवती। मार्गसुरक्षायाः शिरस्त्राणधारणस्य च अनिवार्यतायाः सन्देशं जनसामान्येषु प्रसारयितु
जशपुर पुलिस वर्ल्ड रिकॉर्ड


जशपुर पुलिस वर्ल्ड रिकॉर्ड


जशपुरनगरम्, २५ जूनमासः (हि.स.)। मार्गसुरक्षायाः जीवनरक्षणस्य च क्षेत्रे अभूतपूर्वम् उदाहरणं स्थापयन्ती जशपुर-आरक्षकः वैश्विकपटलस्य उपरि स्वनाम स्वर्णाक्षरैः लिखितवती। मार्गसुरक्षायाः शिरस्त्राणधारणस्य च अनिवार्यतायाः सन्देशं जनसामान्येषु प्रसारयितुं संकल्प्य जशपुर-आरक्षकेण बुधवासरे प्रातःकालात् सायंकालपर्यन्तम् एकस्मिन्नेव दिने अभिलेखात्मकरीत्या ७६६ ग्रामेषु एककालिकरूपेण व्यापकाः ‘आरक्षक-जनचौपालाः’ आयोजिताः।

जशपुर-आरक्षकेण गुरुवासरे प्रकाशितायां प्रेसविज्ञप्तौ सूचितं यत् अस्य असाधारणस्य विशालतमस्य जनजागरूकताऽभियानस्य अन्ताराष्ट्रियस्तरे मान्यता प्रदत्ता अस्ति तथा च एतत् ‘गोल्डन बुक ऑफ वर्ल्ड रेकॉर्ड्स’ इति अभिलेखग्रन्थे पञ्जीकृतम्। जशपुर-आरक्षकाधीक्षककार्यालये आयोजिते गरिमामये समारोहस्य अवसरे गोल्डन बुक ऑफ वर्ल्ड रेकॉर्ड्स-संस्थायाः राज्यप्रमुखया सोनलराजेशशर्ममहोदयया डीआईजी तथा वरिष्ठपुलिसाधीक्षकः डॉ.लालउमेदसिंहः अस्य ऐतिहासिक-उपलब्धेः आधिकारिकं प्रमाणपत्रं पदकं च प्रदाय सम्मानितः।

मार्गदुर्घटनासु जायमानानाम् अकालमृत्यूनां जनहानेश्च नियन्त्रणार्थं वरिष्ठपुलिसाधीक्षकस्य डॉ.लालउमेद-सिंहस्य कुशलनेतृत्वे एतत् विशेषाभियानं सञ्चालितम्। आरक्षकाधिकारिणः अनुसारम् अस्य अभियानस्य मूलोद्देश्यं समाजस्य सर्वेषु वर्गेषु स्वप्रेरित-उत्तरदायित्वस्य यातायात-नियमान् प्रति च गम्भीरादरस्य निर्माणम् अस्ति। अस्यैव दूरदर्शिन्याः चिन्तायाः आधारेण अस्य महाभियानस्य योजना निर्मिता, यस्मिन् जनपदप्रशासनेन स्थानीयजनतया च सक्रियसहभागिता प्रदर्शिता।

अभियानस्य अन्तर्गतं जशपुर-आरक्षकेण जनपदप्रशासनस्य सहयोगेन १०,००० अधिकनागरिकसहभागितायुक्ताः विशालाः शिरस्त्राणजागरूकतायात्राः आयोजिताः। तदतिरिक्तं जनसामान्यानां प्रेरणार्थं राज्यस्य मुख्यमन्त्रिणा, जनपदस्य प्रभारीमन्त्रिणा, वरिष्ठप्रशासनिक-अधिकारिभिः समाजस्य विविधक्षेत्रेषु स्थितैः ३,००० अधिकैः गणमान्यव्यक्तिभिः च दृश्यसन्देशाः प्रसारिताः, ये सामाजिकमाध्यमेषु शिरस्त्राणधारणस्य भावपूर्णम् आह्वानं कृतवन्तः। अस्य अभियानस्य महती सफलता एषा यत् ६०,००० अधिकनागरिकेभ्यः मार्गसुरक्षानियमानां निष्ठापूर्वकं पालनस्य शपथः कारिता।

अस्य ऐतिहासिकाभियानस्य आधारशिला १८ एप्रिलमासे २०२६ दिनाङ्के जशपुररक्षितकेन्द्रात् भव्यशिरस्त्राण-जागरूकताद्विचक्रयानयात्रया स्थापिता आसीत्। तस्मिन् उद्घाटनकार्यक्रमे जशपुर-उपायुक्तः रोहितव्यासः, डीआईजी तथा एसएसपी डॉ.लालउमेदसिंहः, नगरपालिकााध्यक्षः अरविन्दभगतः, अन्ये च शासकीय-अधिकारिणः, कर्मचारीणः, जनप्रतिनिधयः च सहभागित्वा जनसामान्येभ्यः शिरस्त्राणधारणस्य सन्देशं दत्तवन्तः।

जशपुर-आरक्षकेण स्वकीया ‘बीट्प्रणाली’ पुनर्गठिता सुदृढीकृता च। अस्याः नवीनव्यवस्थायाः अन्तर्गतं जनपदस्य प्रत्येकस्मिन् ग्रामे एकः आरक्षकाधिकारी कर्मचारी वा ‘ग्रामसुरक्षाधिकारी’ इति रूपेण नियुक्तः अस्ति। एषः सुरक्षाधिकारी ग्रामवासिनः नियमितरूपेण शिरस्त्राण-धारणाय सुरक्षितवाहनचालनाय च प्रेरयिष्यति, ग्रामस्य सुरक्षाव्यवस्थां सुदृढां करिष्यति, समस्याश्रवणेन तासां त्वरितनिराकरणे च सेतुरूपेण कार्यं करिष्यति।

ग्रामीणजनतायाः आरक्षकविभागस्य च मध्ये विश्वाससमन्वययोः सुदृढीकरणार्थम् अद्वितीयः स्वयंसेवकपक्षः ‘जशपुर-आरक्षक-मितान’ इति नाम्ना स्थापितः। अधुना प्रायः ५००० सदस्ययुक्तः अयं पक्षः ग्रामस्तरे अपराधनियन्त्रणे अपराधिनां ग्रहणे च आरक्षकविभागस्य साहाय्यं करोति।

अभिलेखस्थापनस्य अस्मिन् विशेषदिने अर्थात् २४ जूनमासे २०२६ दिनाङ्के प्रातः १० वादनात् सायं ५ वादनपर्यन्तं जनपदस्य सर्वेषु ७६६ ग्रामेषु एककालिकरूपेण चौपालाः विशेषग्रामसभाश्च आयोजिताः। एतासु ग्रामसभासु विधिवत् प्रस्तावाः पारिताः, येषु शिरस्त्राणधारणस्य अनिवार्यता मार्गसुरक्षानियमानां पालनं च सर्वसम्मत्या स्वीकृतम्।

डीआईजी तथा वरिष्ठ-आरक्षक-अधीक्षकः डॉ.लालउमेदसिंहमहोदयः अस्य वैश्विकगौरवस्य सम्पूर्णं श्रेयः जनपद-आरक्षकस्य सर्वेभ्यः अधिकारिभ्यः, जवानेभ्यः, अन्येभ्यः सहयोगिभ्यश्च समर्पितवान्।

Hindusthan Samachar / अंशु गुप्ता