संविधान-हत्या-दिवसे केन्द्रीय-शिक्षामन्त्रिणा धर्मेन्द्र-प्रधान-महोदयेन आपत्कालः लोकतन्त्रस्य कृष्णाध्यायः इति कथितः
भुवनेश्वरनगरम्, २५ जूनमासः (हि.स.)। केन्द्रीय-शिक्षामन्त्री धर्मेंद्रप्रधानः संविधान-हत्या-दिवसस्य अवसरे १९७५ तमे वर्षे आरोपितम् आपत्कालं भारतस्य लोकतान्त्रिक-इतिहासस्य कृष्णाध्यायः इति वर्णितवान्। तेन उक्तं यत् एषः तादृशः कालः आसीत् यं देशः कदापि
धर्मेंद्र प्रधान


भुवनेश्वरनगरम्, २५ जूनमासः (हि.स.)। केन्द्रीय-शिक्षामन्त्री धर्मेंद्रप्रधानः संविधान-हत्या-दिवसस्य अवसरे १९७५ तमे वर्षे आरोपितम् आपत्कालं भारतस्य लोकतान्त्रिक-इतिहासस्य कृष्णाध्यायः इति वर्णितवान्। तेन उक्तं यत् एषः तादृशः कालः आसीत् यं देशः कदापि विस्मर्तुं न शक्नोति।

सामाजिकमाध्यमेषु प्रकाशिते स्वसन्देशे प्रधान-महोदयः अवदत् यत् सत्तायाः परिवारवादस्य च मोहवशात् तत्कालीना प्रधानमन्त्री इन्दिरागांधी तथा इंडियन-नेशनलकांग्रेसः इति पक्षः २५ जूनमासे १९७५ तमे वर्षे संविधानस्य, लोकतन्त्रस्य, नागरिक-अधिकाराणां च उपरि प्रहारम् अकरोत्। तेन आरोपितं यत् तस्मिन् काले लोकतान्त्रिक-संस्थानानि नागरिक-स्वातन्त्र्याणि च दुर्बलानि कर्तुं प्रयासः कृतः।

प्रधान-महोदयः उक्तवान् यत् अन्ततः देशस्य लोकतान्त्रिकीशक्तिः तानाशाही-चिन्तनं पराजितवती तथा लोकतन्त्रस्य स्वरः कदापि न दमनं कर्तुं शक्यते इति सिद्धं कृतवती। तेन उक्तं यत् भारतीय-लोकतन्त्रस्य दृढता जनतायाः जागरूकता च लोकतान्त्रिक-मूल्यानां रक्षणं सुनिश्चितवती।

केन्द्रीयमन्त्रिणा संविधान-हत्या-दिवसस्य अवसरे लोकतन्त्रस्य रक्षणार्थं संघर्षं कृतवन्तः सर्वे जनाः श्रद्धया स्मृताः। तेषां साहसं त्यागं समर्पणं च प्रति नत्वा तेभ्यः श्रद्धाञ्जलिः अर्पिता।

Hindusthan Samachar / Divya Ranjan