Enter your Email Address to subscribe to our newsletters

लण्डनम्/नवदिल्ली, २५ जून। केन्द्रीय-वाणिज्य-उद्योगमन्त्री पीयूषगोयलः गुरुवासरे उक्तवान् यत् ब्रिटेनदेशेन सह सम्पन्नः मुक्तव्यापार-सन्धि: अद्यावधि भारतस्य सर्वाधिकः व्यापकः सन्धि: अस्ति। तेन उक्तं यत् अस्मात् सन्धितः प्राप्तुं शक्यमानानां आर्थिकलाभानां सीमा नास्ति।
लण्डने आयोजिते इण्डिया ग्लोबल फोरम् यूके-इण्डिया सप्ताहे सम्बोधनं कुर्वन् गोयलः उक्तवान् यत् भारत-ब्रिटेनयोः मध्ये सम्पन्नः अयं मुक्तव्यापार-सन्धि: भारतस्य अद्यावधि सर्वाधिकः व्यापकः व्यापारानुबन्धः अस्ति। सः स्वसम्बोधने अवदत् यत् अस्य सन्धि: फलरूपेण प्राप्ताः आर्थिकलाभाः असीमिताः भवितुमर्हन्ति।
इण्डिया ग्लोबल फोरम् इत्यत्र भाषमाणः वाणिज्य-उद्योगमन्त्री उक्तवान् यत् भारत-ब्रिटेन-व्यापक-रणनैतिक-सहभागिता परस्पर-विकास-समृद्ध्योः सहभाग-दृष्टिकोणम् अधिष्ठाय प्रतिष्ठिता अस्ति। सः पुनरपि अवदत् यत् भारत-ब्रिटेन-व्यापक-आर्थिक-व्यापार-सन्धि: वैश्विक-अर्थव्यवस्थायाः सुदृढीकरणाय ‘बलवर्धक-शक्तिः’ इव कार्यं करिष्यति।
केन्द्रीय-वाणिज्य-उद्योगमन्त्री भारत-ब्रिटेनयोः मध्ये सम्पन्नस्य व्यापक-आर्थिक-व्यापार-सन्धे: कार्यान्वयनार्थं उभयदेशयोः सिद्धतायाः समीक्षणाय त्रिदिवसीय-लण्डन-प्रवासे आगतः अस्ति। अयं सन्धि: १५ जुलाईतः प्रभावी भविष्यति।
Hindusthan Samachar / Divya Ranjan