सीईटी-समूह-डी परीक्षायै सार्धत्रिलक्षाधिकैः युवभिः आवेदनपत्राणि पूरितानि
चण्डीगढनगरम्, २५ जूनमासः (हि.स.)। हरियाणा-कर्मचारी-चयन-आयोगेन समूह-डी-सीईटी-परीक्षायाः कृते आयोज्यमानायाः परीक्षायाः पञ्जीकृतानाम् अभ्यर्थिनां संख्या अधुना सार्धत्रिलक्षात् अपि अधिका जाता। आवेदनस्य अन्तिमतिथिः जुलाईमासस्य ३ दिनाङ्कः अस्ति। आयोगस्य
एचएसएससी द्वारा जारी किया पंजीकरण पत्र


चण्डीगढनगरम्, २५ जूनमासः (हि.स.)। हरियाणा-कर्मचारी-चयन-आयोगेन समूह-डी-सीईटी-परीक्षायाः कृते आयोज्यमानायाः परीक्षायाः पञ्जीकृतानाम् अभ्यर्थिनां संख्या अधुना सार्धत्रिलक्षात् अपि अधिका जाता। आवेदनस्य अन्तिमतिथिः जुलाईमासस्य ३ दिनाङ्कः अस्ति।

आयोगस्य मतम् अस्ति यत् अग्रिमसप्ताहे बहुसंख्यकाः यूनः आवेदनं करिष्यन्ति। अन्तिम-समर्पणं कृतवताम् अभ्यर्थिनां संख्या अष्टलक्षपर्यन्तं प्राप्तुं शक्नोति।

समूह-डी-नियुक्ति-२०२६ कृते अन्तर्जाल-आवेदन-प्रक्रिया जूनमासस्य १९ दिनाङ्कात् प्रारब्धा। अभ्यर्थिनः जुलाईमासस्य ३ दिनाङ्कस्य रात्रौ ११:५९ वादनपर्यन्तम् आवेदनं कर्तुं शक्नुवन्ति। आवेदनशुल्कस्य निक्षेपणस्य अन्तिमतिथिः जुलाईमासस्य ६ दिनाङ्कः निर्धारिता अस्ति। आयोगेन अभ्यर्थिभ्यः आवेदनपत्रे त्रुटि-संशोधनस्य अवसरः अपि प्रदत्तः। अभ्यर्थिनः जुलईमासस्य ७ दिनाङ्कात् ९ दिनाङ्कपर्यन्तं स्वस्य आवेदनपत्रे संशोधनं कर्तुं शक्नुवन्ति। परीक्षायाः तथा प्रवेशपत्रस्य निर्गमनस्य तिथिः पश्चात् पृथक् घोषयिष्यते।

हरियाणा-कर्मचारी-चयन-आयोगस्य अध्यक्षः हिम्मतसिंहः गुरुवासरे सामाजिक-माध्यम-मञ्चे एक्स् इत्यत्र अवदत् यत् अधुना यावत् कुलम् ३,८८,५५१ अभ्यर्थिनः सीईटी-समूह-डी-परीक्षायै पञ्जीकृतवन्तः। तेषु २,१४,६९९ अभ्यर्थिनः सर्वाः औपचारिकताः सम्पूर्य अन्तिम-समर्पणम् अकुर्वन्।

सः अवदत् यत् अद्यापि केचन अभ्यर्थिनः स्वयम् आवेदनपत्रं न पूरयन्ति, अपितु अन्यैः जनैः अथवा सीएससी-केन्द्रैः पूरयापयन्ति। तेन कारणेन ते स्वस्य आवेदनपत्रस्य त्रुटीनां तथा अन्यासां समस्याणां विषये अनभिज्ञाः भवन्ति। अतः श्रेष्ठं भवेत् यत् अभ्यर्थिनः स्वयमेव आवेदनपत्रं पूरयेयुः तथा अन्तिम-समर्पणात् पूर्वं द्विवारं सम्यक् परीक्षां कुर्युः। आयोगेन स्वस्य आधिकारिक-जालपुटे तथा सामाजिक-माध्यम-मञ्चेषु नियमितरूपेण अद्यतनसूचनाः प्रदीयन्ते।

Hindusthan Samachar / Divya Ranjan